सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/233

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
सिद्धान्तशिरोमणौ ग्रहगणिते


 वा० भा०-इह किल पूर्वाचायें: कालानपेक्षया तिस्र एव छाया आनीता:। एका पूर्वापरा । अन्या याम्योतरा । तदन्या कोणच्छाया । ताव पृथक-पृथक् साधनैः । येनानयनेन मध्यच्छायाऽऽगच्छति न तेन कोणच्छाया न समच्छाया। इतरस्या आनयनेनेतरा नागच्छतीत्यर्थः । या एता याश्च तद्दिग्विवरान्तर्गता याश्च प्रच्छकेच्छावशात् ॥ एतदुक्ततं भवति ॥ एताश्च्छाया य आनयति । परमेकेनैवानयनेन । न नानानयनभेदै: । तमहं भुवि सूर्यमन्यं मन्ये। एकः किल दिवि सूर्यः । अयं भुवि ॥ कस्मिन् विषये ज्योतिविद्वदनारविन्दमुकुलप्रोल्लासने गणकवदनकमल · कलिकाविकासे ॥४४॥

इदानों तदर्थमाह

चक्रांशकाझे क्षितिजाख्यवृत्ते प्राक्स्वस्तिकाभीष्टदिशोऽस्तु मध्ये । यंऽशास्थितास्तेऽत्र दिगंशकाख्यास्तज्ज्यात्र दिग्ज्येत्यपरे विभागे ॥४५॥

 वा० भा०-कदाचिदप्यभीष्टदिने यस्मिन् काले प्रच्छक: पृच्छति तत्र कालेऽकोंपरि न्यस्तस्य दृङ मण्डलस्य क्षितिजस्य च संपाते याभीष्टा दिक् तस्याः प्राक्स्वस्तिकस्य चान्तरे क्षितिजवृत्ते र्योऽशास्तेऽत्र दिगंशका ज्ञेयाः । तेषां ज्या दिग्ज्येति ॥ एवं पश्चिमभागेऽपि ॥४५॥

 इदानीमिच्छादिक्क्छायानयनमाह—

पलप्रभा व्यासदलेन निघ्नी दिग्ज्योद्धृता तां पलभां प्रकल्प्य । साध्याक्षजीवाथ तया विनिध्नी स्वाक्षज्ययाप्तापमशिञ्जिनी च ।॥४६॥ ताभ्यां दिनार्धद्युतिवद्विदध्यादभीष्टदिक्स्थे द्युमणी द्युर्ति वा।

 वा० भा०-पलप्रभा त्रिज्यया गुण्या । इच्छादिग्ज्यया भाज्या । यल्लभ्यते तां पलभां प्रकल्यान्याक्षज्या साध्या। अथ या क्रान्तिज्या सेदानीमानीतयाक्षज्यया गुण्या स्व देशाक्षज्यया भाज्या ॥ फलमिष्टक्रान्तिज्या भवति । ताभ्यां दिनार्धद्युतिवद्विदध्यादिति । एत दुक्तं भवति । इष्टाक्षज्याया धनुरिष्टपलो भवति । इष्टक्रान्तिज्याया धनुरिष्टापमो भवति ॥ पलावलम्बावपमेन संस्कृतावित्यादिना या मध्यच्छाया भवति साभीष्टदिक्स्थे द्युमणी छाया भवति ।

 अत्रोपपत्तिः । विषुवद्दिने विषुवन्मण्डले रविभ्रंमति ॥ तत्र भ्रममाणेऽर्के इष्टदिशं गते यावती छाया सा तावदिह साध्यते । द्वादशाड्गुलशड्रोश्च्छायाग्रं दिङ्मध्ये यथा भवति तथा विन्यस्तस्य प्राच्यपरया सहान्तरं विषुवतीतुल्यमेव भवति । तत्छङ्कुतलम् । अग्राभावातू स एव भुजः । छाया दृग्ज्या । अथ दिङ्मध्यात् त्रिज्यातुल्येन ककटकेन यद्वृत्तं लिख्यते तत् किल क्षितिजम् ॥ तत्र क्षितिजे या दिग्ज्या स भुजः । दिग्ज्याग्राद्दिङ्मध्यगामिनी त्रिज्या तत्र दृग्ज्या । इदानीमनुपातः । यदि दिग्ज्यामितेन भुजेन त्रिज्यातुल्या दृग्ज्या लभ्यते तदा पलभामितेन किमिति । अत्र त्रिज्या पलभया गुण्या । दिग्ज्यया भाज्या । फलं विषुवन्मण्डलस्थेऽर्क इच्छा दिकच्छाया भवति । अथ तां पलभां प्रकल्प्य साध्याक्षजीवेति । खमध्यार्कयोरन्तरे येंऽशा दृङमण्डलस्थितास्तेषा ज्या साध्या । येयमिदानीमानीता छाया ता पलभा प्रकल्प्य तस्याः