पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/231

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
सिद्धान्तशिरोमणौ ग्रहगणिते


इदानीं प्रकारान्तरेणाह

युतायनांशार्कवृहद्भुजज्यया खरामतिथ्यभ्रभुवो १०१५३० हृताः परः । पलश्रुतिघ्नः पलभाविभाजितः परोऽथवोद्वृत्तगते रवौ श्रुतिः ॥४१॥

 वा० भा०- अर्कस्य सायनांशस्य बृहती भुजज्या साध्या । न लघुखण्डज्येत्यर्थ: । तया ज्यया पूर्णाग्नितिथिशून्यशशिनो १०१५३० भाज्याः । यल्लब्धमसौ पराख्यः । स परः पल कर्णेन गुण्यः पलभया भाज्यः फलमुन्मण्डलगतस्यार्कस्य छायाकर्णो वा भवति ॥४१॥ इदानीं तस्मादेव परसंज्ञात् समवृत्तकर्णमाह-- परोऽक्षभासंगुणितोऽक्षकर्णभक्तोऽथवा स्यान् समवृत्तकर्णः ।

 वा० भा०-स एव परः पलभया गुण्यः पलकणेंन भाज्यः । फलं सममण्डलगतस्यार्कस्य छायाकणों वा भवति ।

 अत्रोपपत्तिस्त्रैराशिकत्रयेण । यदि त्रिज्यया परक्रान्तिज्या लक्ष्यते तदाकदोज्र्यया किमिति । अत्र दोज्र्या परमकान्तिज्यया गुण्या त्रिज्यया भाज्या फलं क्रान्तिज्या । अथान्यो ऽनुपातः । यद्यक्षकणेन पलभा भुजो लभ्यते तदा क्रान्तिज्यया किमिति । फलमुन्मण्डलशङ्कुः । इदानीं दोज्यायाः परमक्रान्तिज्या पलभा च गुणस्त्रिज्याक्षकर्णश्च हरः ॥ इदानीमन्योऽनुपातः ॥ .यद्यस्य शङ्कोस्त्रिज्या कर्णस्तदा द्वादशाङ्गुलस्य शङ्कोः किमिति ॥ अत्र त्रिज्या द्वादशगुणा भाज्यः । पूर्वराशिर्भाजक: । इह छेदांशविपर्यासे कृते त्रिज्यावगों द्वादशगुणोऽक्षकर्णगुणश्व भाज्य:। दोज्र्या परक्रान्तिज्यागुणा पलभागुणा च भाजकः । अत्र भाज्यभाजकयोः परक्रान्त्यापवर्त: । द्वादशगुणस्त्रिज्यावर्गः परक्रान्त्या यावदपवत्यंते तावत् खरामतिथ्यभ्रभुवो लभ्यन्ते १०१५३० । एते . दोज्र्यया भक्ताः परसंज्ञाः कृताः ॥ अन्यस्मिन्नानयन उपयोगित्वात् । इदानीमसौ परोऽक्षकर्णेन गुण्यः पलभया विभक्त उन्मण्डलकर्णः स्यादित्युपपन्नम् । एवं सममण्डलकर्णार्थं यथायोगमनुपातत्रये कृते तथैव परक्रान्तिज्ययापवर्ते कृते स एव परः स्यात् । किन्तु तत्राक्षभा गुणोऽक्षकणाँ हरः । फलं सममण्डलकर्णः स्यादित्युपपन्नम् ॥ ४१ ।। इदानीमुन्मण्डलकर्णान्मध्यकर्णमाह

उद्वृत्तकर्णश्चरशिञ्जिनीध्नो भक्तोऽन्त्यया वा श्रवणो दिनार्धे ॥४२॥

 वा० भा०-उन्मण्डलकर्णश्चरज्यया गुण्योऽन्त्यया भाज्य: । फल वा मध्यकणों भवति ।  अत्रोपपत्तिस्त्रैराशिकेन' । यद्यन्त्याधःशकलेन चरज्यामितेनोन्मण्डलकण लभ्यते तदान्त्यया किमिति । इदं व्यस्तत्रैराशिकम् ॥


१. अत्र बापूदेव :-

 अथवा उन्मण्डलकर्ण द्वादशशड कुस्तदा त्रिज्यया किमिति। फल महाशडकुः ।  अथान्योनुपातः । यदि चरज्यामितेनान्त्याधः खण्डेनोन्मण्डलशङ्कुस्तदाऽन्त्यया किमिति । फलं मध्यशङ्कुः । पुनरन्योनुपातः । यद्यनेन त्रिज्याकर्णस्तदा द्वादशशङ्कौ किमिति । फलं मघ्यकर्ण: । अत्र भाज्यभाजकयोस्त्रिज्याद्वादशयोर्नाशे कृते सति उदृतकर्णश्चरशिव्जिनीघ्नो भक्तोऽन्त्ययावेति यथोक्तमुपपद्यते ॥