पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/208

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६३
त्रिप्रश्नाधिकारः

 तत्र चतुर्थखण्डं विचार्यते । बृहद्भुजवर्गकुवर्गयोश्चतुर्गुणो घातश्चतुर्थखण्डम् । यद्वा बृहद्भजवर्गस्य चतुर्गुणस्य कुवर्गस्य घातोऽयं भवति । तत्र भुजयोर्योगोऽन्तरयुतो बृहद्धजो द्विगुणो भवति। सङ्क्रमसूत्रोपपतौ तथा दृष्टत्वात्। यो० १ अं० १ अस्य वर्गश्चैतुर्गुणो बृहद्भुजवर्गः । स च कुवर्गगुणितो जातं खण्डत्रयम् । कुव० अं० वघा० १। अं० यो० घा० कुव० २ । यो० व० कु० व० १ एवं खण्डत्रयात्मकस्य चतुर्थखण्डस्य पूर्वसिद्धखण्ड्त्रयस्य च योगे क्रियमाणे कुवर्गगुणितान्तरयोगघातस्य तुल्यधनर्णनाशे सिद्ध खण्डचतुष्टयम्। अं० व० यो० व० १ कु० व व० १ कु० व० गु० अं० व० १ कु० व० यो० व० १ सर्वत्र हरः षोडशतुल्यः ।

 अत्र प्रथमखण्डे योगवर्गोऽन्तरवर्गगुणितः षोडशभक्तोऽस्ति । स चान्तरवर्गचतुर्थांशस्य क्षयगतस्य योगवर्गचतुर्थांशस्य धनगतस्य घातो भवितुमहति । द्वितीयखण्डे धनर्णयोः कुवर्गचतुर्थाशयोर्घातोऽस्ति । तृतीये तु कुवर्गान्तरवर्गचतुर्थाशयोर्घातोऽस्ति । चतुर्थे तु कुवर्गयोगवर्गं चतुर्थाशयोर्घातोस्तीति ज्ञातानि चत्वारि खण्डानि । तत्रापि युग्मयोर्घातस्य खण्डचतुष्टयतुल्यत्वादन्यथानुपपत्त्या जातमेकं युग्मं कुवर्गचतुर्थाशोत्तरवर्गचतुर्थांशोनः । द्वितीयन्तु कुवर्गचतुर्थांशोनो योगवर्गचतुर्थाशश्च । प्रथमयुग्मन्तु कुदलान्तरार्द्धयोर्वर्गान्तरम् । द्वितीयन्तु योगदलकुदलयोर्वर्गान्तरं ततु योगान्तरघात इति लब्धानि मूलखण्डानि ।

 'अन्तराद्धनं कुदलमेकम्। अन्तरार्द्धयुतं कुदल द्वितीयम्। कुदलोन योगदल तृतीयम्। कुदलयुतं योगदल चतुर्थम्।  इदं प्रत्यक्षयुक्त्या सर्वदोर्युतिदलं बाहुभिविरहितमुत्पन्नम् ।  सर्वदोर्युतिदल नाम कुदलबृहद्भुजदललघुभुजदलयोगः।अस्मिन् लघुभुजे शोध्यमाने लघुभुजदलयोस्तुल्यत्वान्नाशे लेंघुदलोन बृहद्भुजदल कुदल चावशिष्यते। तस्मादुच्यतेऽन्तरार्द्धयुतं कुदलमिति \ एवं सर्वत्रोह्यम् । तद्धतेमूलमित्यादि सर्वं शोभनमेव ।

 समत्रिभुजे विषमत्रिभुजेऽन्तलम्बे बहिलम्बे च सम्यक् फलमायाति।  बीजगणिततत्त्वविदस्तु वज्राभ्यासयोर्योगान्तरतुल्यमिष्टं कनिष्ठं प्रकल्प्य ज्येष्ठपदक्षेपयोरुपपति वदन्ति । 2'हस्वज्येष्ठपदक्षेपानीत्यत्र' चक्रवाले गुणलब्धितुल्यं कनिष्ठमिष्टं प्रकल्प्यानयैव युक्त्या खण्डक्षोदवासनां वर्णयन्ति च, कथं पुनबंहिलम्बान्तर्लम्बाभ्यां त्रिभुजद्वैविध्यम् । उच्यते । जात्यत्र्यस्रद्वययोगारब्धं त्रिभुजमन्तर्लम्बम् । जात्यत्र्यस्रद्वयान्तरारब्धं त्रिभुजं बहिर्लम्बम् । पञ्चदशमितो भुजः । सप्तदशमितः कर्णः । वसुमिता कोटिरिति, जात्याद्यदाष्टकोटिक दशमितकर्णक, षण्मितभुज जात्यमपनीयते, तदा 3'दशसप्तदशप्रमौ भुजौ त्रिभुजे यत्र नवप्रभा महीति' बहिर्लम्ब त्रिभुजमुत्पद्यते।

१. अन्तराद्धनमिति ग पु० । १. बी० गा० चक्र० १ श्लो० ॥

२. ली० क्षे ० ऋणाबाधोद्यहरणम् २ ।।