पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( & & ) प्रस्तुतं संस्करणम् भास्कराचार्यविरचितेन वासनाभाष्येण सहास्य सिद्धान्तशिरोमणेरासन् द्वित्रापि संस्करणानि प्रकाशितानि, किन्तु वासनावातिकसार्धमस्याद्यावधि न कुतोऽपि प्रकाशन मुपगतम् । यदि पिपठिषूणां विदुषाच्च कृते व्याख्याद्वयमेकत्रैव सुलभं स्यात् तर्हि मणिकाञ्चनसंयोगो भवेदितीहा मे बहोः कालादासीत् । साम्प्रतं संस्कृतवाङ्मयोद्धारायानवरतप्रयत्नवतां विद्वन्मूर्धन्यानां पण्डितः बदरीनाथशुक्लमहोदयानां सम्पूर्णानन्दसंस्कृतविश्वविद्यालयकुलपतीनां तथा सरस्वती भवनग्रन्थालयाध्यक्षाणां श्रीलक्ष्मीनारायणतिवारिमहोदयानां च कृपया अप्रकाशित ग्रन्थानां प्रकाशनयोजनाया समाविष्ठस्यास्य ग्रन्थस्य सम्पादनेन सफलीभूतो मे मनोरथ इत्युभयोरपि महानुभावयोः कृपालवस्मरणादन्यत्किमपि वक्ततुं मे धाष्ट्र'च्यमेव भवेदिति केवलं प्रणतिं निवेदयामि । · · अस्मिन् संस्करणे मया स्व० म० म० श्रीबापूदेवशास्त्रिभिः सम्पादितं संस्करणमुपयोजितम् । तत्रत्यटिप्पणीभ्योऽपि क्वचित् साहाय्यं लब्धमिति तेषामुपकृतिं मन्ये । । एतत्सम्पादनेऽस्मन्मित्रेण श्रीचन्द्रभानुपाण्डेयेन श्रीजनार्दनपाण्डेयशास्त्रिणा च यत् साहाय्यं विहितम् तत्कृते शतशः साधुवादाः । अन्ते कृाधनान् विपश्चितः सादर प्रार्थये यन्ममाज्ञानाद् दृष्टिदोषाद वा यत्र कुत्राप्यशुद्धथः स्थुस्तत्कृते क्षाम्यन्तु श्रीमन्त इति निवेदयते । हरिशयन्येकादश्याम् मथुरावास्तव्यश्रीमद्भागवताभिनवशुक२०३७ वैक्रमाब्दे पण्डित-श्रीकेशवदेवचतुर्वेदात्मजः ( २३॥७॥१९८० बुधे ) मुरलीधरचतुर्वेदी शिक्षक:, ज्योतिषविभागे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य