पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/184

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
स्पष्दाधिकार:



विशुद्धसंख्यानि गतं तु शेषमशुद्धभोगात् पतितं तदेष्यम् ।
गतागते षटिगुणे विभक्ते ग्रहस्य भुक्तश्या घटिका गर्तेष्या ॥७५॥

 वा० भा०-इह यन्नक्षत्रानयन कृत तत् स्थूल लोकव्यवहारार्थमात्र कृतम्। अथ पुलिशवसिष्ठगगादिभिर्यद्विवाहयात्रादौ सम्यक् फलसिद्धचर्थ कथित तत् सूक्ष्ममिदानीं प्रवक्ष्ये। तत्र षडध्यर्धभोगानि । विशाखापुनर्वसुरोहिण्युत्तरात्रयम् । अथ षडर्धभोगानि। आश्लेषाद्रा स्वाती भरणी ज्येष्ठा शतभिषक् । एभ्यः शेषाणि पञ्चदशैकभोगानि । भोग प्रमार्ण तु शशिमध्यभुक्तिः ७९० ।। ३५ ॥ अध्यर्धभोगः ११८५ ।। ५२ अर्धभोगः ३९५ ॥ १७ ।। सर्वर्क्षभोगैरूनितानां चक्रकलानां २१६०० यच्छेषं सोऽभिजिद्भोगः २५४।१८।।

 अथ तत्साधनम्--

 ग्रहं कलीकृत्याश्विन्यादीनां भोगान् विशोधयेत् । यावन्तः शुद्धास्तावन्ति गतभानि जानीयात् । शेषाः कला गतसंज्ञाः । ता अशुद्धभोगात् पतिता एष्यसंज्ञाः । ता गतैष्याः कलाः षष्टि ६० गुणा ग्रहगत्या भक्ता गतैष्या घटिका भवन्ति ।

अत्रोपपत्तिरागमप्रामाण्येन ॥ ७१-७५ ।।
इदानीं ग्रहाणां राशिसंक्रान्तिमान भतिथिकरणयोगानां सन्धिमानं चाह
षष्टिध्नबिम्बं ग्रहभुतिभत संक्रान्तिनाडद्योऽखिलधर्मकृत्ये।
रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रान्तिगो मिश्रफलं विधत्ते ॥७६॥
शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वो
गीतिविवरकलाभिभूय एताभिरेव ।
पृथगथ गतियुत्या नाडिकाः सन्धिराप्ता
भतिथिकरणयोगानां फलं तत्र मिश्रम् ।। ७७ ।।

 वा० भा०-वक्ष्यमाणप्रकारेण ग्रहबिम्बकला आनीय षष्टघा संगुण्य ग्रहभुक्तया भजेत्, यल्लब्धं ताः संक्रान्तिनाडयः । राश्यन्तकालात् पूर्वमर्धा उत्तरतोऽर्धा इत्यर्थाद्गम्यते । ताः संक्रान्तिनाडयो रवेस्तु पुण्यतमाः ॥ तथा यावत् संक्रान्तिस्थो ग्रहस्तावद्राशिद्वयोत्थं फलं करोति। एवं शशिबिम्बविकलाभ्यो या घटिका उत्पद्यन्ते ता भतिथिकरणयोगानां सन्धिघटिकाः स्युः । सन्धौ मिश्रफलमित्यर्थः । अत्र सन्धिरुभयतोऽपि बिम्बस्य स्थितत्वात् । उपपत्तिरप्यत्र सुगमा ॥ ७६-७७ ॥

इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे ग्रहस्पष्टीकरण समासम् ।

ग्रन्थसंख्या ६०० ॥

 वा० वा०-इदानीमुदयास्तभागान् गतैष्यदिवससाधनचाह-प्राच्यामिति।

खाक्षेरिति ।