प्राक्पश्चिमस्थस्तरणिर्विधुः प्रागृणे फले युक्त इतोऽन्यथोनः । |
वा० भा०-चन्द्रग्रहेऽर्कग्रहे वा यास्तिथ्यन्ते नतनाड्यस्ता रस ६ गुणा नतभागा भवन्ति । तेषां लध्वी दोज्य साध्या । तयाकशीतांशुभुजफले गुण्ये । अकस्य नखगोसमुद्वैश्चन्द्रस्य क्वङ्गाग्निवेदैर्भाज्ये । यदि फले अंशाद्य गुणिते तह्यशाद्या लब्धिग्रह्या । यदि कलाद्य तहिं कलाद्या तेन लब्धफलेन प्राक्कपालस्थो रविहीनः कार्यः ॥ यदि पश्चिमस्थस्तदा युक्तः । विधुस्तु प्राक्कपालस्थे ऋणे च फले वर्त्तमाने युक्तः कार्यः । अतोऽन्यथा प्राक् पश्चाद्वा हीन एव । अतः पुनस्ताभ्यां तिथिः । पुनर्नतकर्म च यावदविशेषः । इदं जिष्णुसुतो जगादेति । एतदागमप्रामाण्येनास्माभिलिखितमित्यर्थः । चतुर्वेदाचार्येणाप्प्युपलब्धिरेव वासनेत्यभिहितम् । यदीदृश्युपलब्धिरस्ति तदास्माभिः किं नाङ्गीकर्तव्यमिति भावः । अथ ब्रह्मगुप्सोक्तमुच्यते--अत्र त्र्यंशोनश्चतुर्दश नीचोच्चवृत्तपरिधिभागा रवेः पठिताः ॥ यथा ये जिनकलोनरदा हिमांशोस्ते याम्योत्तरमण्डलस्थस्यैव । रवेर्भध्याह्मस्थस्य परिधिभागा ऋणे फले प्रागुन्मण्डलस्थस्य कला विशत्यधिकाः पश्चाद्दूनाः । धनफले तु प्रागूनाः पश्चादधिकाः । पू म प पू म प ऋणफले १४ १३ १३ धनफले १३ १३ १४
अथ चन्द्रस्य मध्याहस्थस्य परिधिभागाः प्रागुन्मण्डलस्थस्य ऋणे वा धने वा फले द्विपञ्चाशता ५२ कलाभिरूनाः । पश्चादृणे फले ताभिः कलाभिः ५२ युताः धने तु ताभिरूनाः । पू म प पू म प ऋणफले ३० ३१ ३२ धनफले ३० ३१ ३० YY R & RØ Y6ʻY R% YY6 ́
अवान्तरे त्वनुपातात् परिधिभागानानीय तैः स्फुटीकरणं कृत्वेदानीं तत्संस्कारः क्रियते । तत्रानुपातः । यदि त्रिज्यातुल्यया नतभागज्यया भागत्रयंश. परिध्यन्तरं तदेष्टया किमिति । अत्र नतभागज्याया भागत्र्यंशो गुणस्त्रिज्या हरः १२० एवं कृते सति नतज्यायाः षष्टयधिकशतत्रयं भागहारः । फलं स्फुटपरिध्यन्तरम् । अथान्योऽनुपातः । यदि त्र्यंशीनैश्चतुर्दशभिः परिधिभागैरिदं फलं * लभ्यते तदा स्फुटपरिध्यन्तरेण किमिति । अत्र फलस्य नतज्या गुणः परिध्यंशाः
१ तथाच ब्रह्मगुप्त - on
तद्द्युदलपरिध्यन्तगुणा हृता त्रिज्यया स्वनतजीवा ॥ |
२. मन्दफलमित्यर्थ: सि०-१८