पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
स्पष्टाधिकारः

 उदेति राशिः समयेन येन तत्सप्तमोऽस्तं समुपैति तेन ॥५९॥

 वा० भा०-अत्र धनु:करणे जीवानां स्थूलत्वाद्द्वतीयतृतीयावृदयौ नान्यैः सम्यक् पठितौ । अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते । द्वितीयप्रकारेण द्वितीयतृतीयौ। शेष स्पष्टार्थम् ।

 अत्रोपपत्तिः-निरक्षस्वदेशाकर्षोदययोरन्तरं चरम् ॥ निरक्षे स्वदेशे च मेषादिः सममुदेति । मेषान्त आदौ स्वक्षितिजे, तत उन्मण्डले लगति । अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति । एवं वृषमिथुनयोरपि । कक्र्यादौ तु चरखण्डानामपचीयमानत्वाद्धनं तानि परिणमन्ति । तुलादौ तून्मण्डलस्याधःस्थितत्वाच्चरखण्डानि धनं भवन्ति । मकरादौ तु चरखण्डानामपचीयमानत्वादूण परिणमन्ति । इत्यादि गोले सम्यग्विलोक्यते ॥५८-५९॥

 इदानीं नैपुण्यमाह--

क्षेत्राणा स्थूलत्वात् स्थूला उदया भवन्ति राशीनाम्।
सूक्ष्माथीं होराणां कुर्याद्दुक्काणकानां वा' ॥६०॥

वा० भा०-यथा राश्युदयाः साधितास्तथा होरोदया अपि साध्याः । तद्यथा—पञ्च दशादिपञ्चदशभागोत्तरभागानां ज्या होराज्याः षड् भवन्ति । ताभिमिथुनान्तद्युज्या ३१४१ पृथक् पृथग्गुण्या स्वस्वद्यज्यया भाज्या। फलानां धनूंष्यधोऽधः शुद्धानि ॥ षष्ठात् पञ्चमं, पञ्चमाच्चतुर्थमित्यादि । शेषाणि हीरोदयासवो भवन्ति ॥ एवं दशादिदशोत्तरभागैद्वेष्काणोदया भवन्ति । ते च नव । तथा होरांशानां षट् चराणि यान्यधोऽधः शुद्धानि तानि तेषां चरखण्डानि । तैः क्रमोत्क्रमस्थैः क्रमोत्क्रमस्थाः ऊनयुताः सन्तः स्वदेशे हारोदया भवन्ति । मेषादीनां द्वादश । ते च व्यस्तास्तुलादीनाम् । एवं चतुविशतिः २४ । एवमेव दृक्काणोदयाः षट्त्रशत् । तथा चाकस्य सायनांशस्य भागाः पञ्चदश १५ हृता गतहोराः स्युः । शेषांशास्ते भुक्तास्ते पञ्चदशभ्यः शुद्धा भोग्यांशाः स्युः । भाग्यांशघ्नः स्वदेशहोरोदयः पञ्चदशहृतः फलं भोग्यासवः स्युस्ता- निष्टासुभ्यो विशोध्य तदग्रतो होरोदयांश्च शोधयेत् । शेषं पञ्चदशगुणमशुद्धहोरोदयेन भजेत् । फलं लवाः । अशुद्धपूर्वाणां होरोदयानां संख्यया गुणितैः पञ्चदशभिर्युताः सन्तो लग्नस्यांशा भवन्ति । एवं लग्नात् कालसाधनेऽपि । एवमेव दृक्काणोदयैरपि लग्नसाधनम् ॥ तत्र पञ्चदश- स्थाने दश १० गुणने भञ्जने च कल्प्याः ॥एवं होरोदयैदृक्काणोदयैर्वा साधितं लभ्नादिकमुद- यान्तराख्यं कर्म च सूक्ष्मं भवति। अन्यथा स्थूलम्।।६०।

 इदानी भुजान्तरमाह--

भानोः फलं गुणितमर्कयुतस्य राशेव्र्यक्षेोदयेन खखनागमही१८००विभक्तम्।
गत्या ग्रहस्य गुणितं द्युनिशासुभक्तं स्वर्णं ग्रहेऽर्कवदिदं तु भुजान्तराख्यम् ॥६१॥


१. अत्रायभटः ।

द्रष्काणज्याः सर्वा मिथुनान्तद्यज्यया निघ्न्यः ।
स्वस्वद्युज्यामत्तास्तच्चापकला मवन्त्यसवः ॥