पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
 सिद्धान्तशिरोमणी ग्रहगणिते

केन्द्रगतिप्रदर्शनार्थ* छेद्यकोक्तविधिना कक्षावृत्तं प्रतिमण्डलं च विलिख्य तयोरद्यतनग्रहस्थानोच्चस्थाने चिह्नयित्वा भूमध्यात् प्रतिमण्डलग्रहचिह्नगामिनी कर्णरेखा कार्या । रेखाकक्षावृत्तयोः संपातेऽद्यतनस्फुटो ग्रहः । यथा मध्यग्रहोच्चचिन्हयोर्मध्ये मध्यमं केन्द्रमेवं स्फुटोच्चयोंर्मध्ये स्फुटं केन्द्रमित्यवगन्तव्यम् । स्फुटकेन्द्रे शीघ्रोच्चाच्छोधिते स्फुटो ग्रहोऽवशिष्यत इति भावः । अथ कक्षावृत्ते प्रतिवृत्तेच मध्यचिन्हात् केन्द्रगतिविलोमा देया ।तदग्रे श्वस्तनं मध्यकेन्द्रम् । अत्राप्यन्या कर्णरेखा कार्या। कक्षावृत्ते रेखोच्चयोर्मध्ये श्वस्तनं स्फुटकेन्द्र । रेखयोर्मध्ये स्फुटा केन्द्रगतिः । इह स्फुटग्रहस्थानयोरन्तरत्वात् कथमियमेव स्फुटा ग्रहगतिर्न स्यादिति नाशङ्कनीयम् । यतोऽद्यतनकर्णरेखा केन्द्रगतिज्ञानार्थमेव रक्षिता । अन्यथा श्वस्तनग्रह उच्चे च मेषादेरनुलोम चालिते सत्यद्यतनस्फुटग्रहाच्छवस्तनस्फुटोऽग्रत एव भवत्यवक्रो यदि । वक्रगतस्तु पृष्ठतः । तयोरन्तरं सा ग्रहगति: स्पष्टा । इयं तु केन्द्रगतिरेव ।

 अथ तन्मानज्ञानार्थमुपायः ॥ यथा भूमध्याद्विनिःसृता कर्णरेखा कक्षावृत्तेऽद्यतनमध्यग्रहात् फलतुल्येऽन्तरे लग्ना । एंवं प्रतिमण्डलमध्याद्विनि:सूता रेखा प्रतिवृत्तग्रहात् फलतुल्येऽन्तरे यथा लगति तथा कृता सती कर्णसमकलया तिष्ठति । तस्याः कर्णेन सह सर्वत्र तुल्यमेवान्तरं स्यादित्यर्थः ॥ अथ तदवधित्वेन प्रतिमण्डले फलस्य ज्याङ्कया यथा ज्याग्रं प्रतिवृत्तमध्यग्रहचिन्हे भर्वात । अथ केन्द्रगत्याधिकस्य च फलस्य ज्याङ्कया ॥ तयोर्जीवयोरन्तरं कर्णसूत्रात् तिर्यग्रूपं भवति । तदत्र । गणितेन ज्याकरणवासनया सिध्यति । शीघ्रफलस्य जीवायां क्रियमाणायां यद्धोग्यखण्ड तेन केन्द्रगतिगुण्या। शरद्विदलैभज्यिा। लक्ष्धन्तु तयोजवियोरन्तरं स्यात्। यतो ज्याग्रस्थेन भोग्यखण्डेन


१. अत्र क्षेत्रदर्शनम् ।