पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/145

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
सिद्धान्तशिरोमणौ ग्रहगणिते


ग्रहकेन्द्रं कुत्र संलग्नमित्यवलोकनीयम् । ततस्तद्वेधवलयं गोले लक्षितग्रहचिन्होपरि
निवेश्यम् । तस्मिन्निवेश्यमाने वेधवलयं यत्र क्रान्तिवृत्ते लगति तत्सर्वेः क्रान्तिवृत्त
ग्रहस्थानमित्युच्यते । तदेव स्पष्टग्रहस्थानम्।
 तत् स्पष्टग्रहस्थानस्य रेवतीयोगतारायाश्च क्रान्तिवृत्त यावदन्तरं तावाना
ग्रह इति वैदिकाना मतम् । स्पष्टग्रहस्थानस्य क्रान्तिमण्डलनाडीमण्डलसम्पातस्य
क्रान्तिवृत्ते यावदन्तरं तावान् सायनो ग्रह इत्युच्यते ।
 यवनास्तु सायनग्रहमेव स्पष्टग्रहत्वेन व्यवहरन्ति । तच्छास्त्रे तादृश एव
फलादेशार्थ स्वीकृत इति न किश्विद्वाधकम्। एवं गोले लक्षितग्रहचिन्होपरि ध्रुवा
न्नीयमानं वलयाकारं सूत्रं यत्र क्रान्तिवृत्त लगति तत्र कृतदृक्कर्मको ग्रह इति वेद्यम् ।
 तत्र सायनो ग्रहः क्रान्तिचरलग्नानयनादावुपयुज्यते।
 कृतदृक्कर्मकस्तृदयलग्नग्रहोन्नतांशा 'स्त दावुपयुज्यते।
 स्पष्टस्तु सर्वत्रैवोपयुज्यते । मन्दधियस्तु तात्पर्यमजानन्तो भ्राम्यन्तु नाम ।
तस्मात् स्पष्टा मुख्यस्तद्वशेन स्पष्टा गतिः । साष्टप्रकारा मुख्येति । इदमेवाक्षिप्य
समाधीयते ।
 न मन्दातिमन्दा न शीघ्रातिशीघ्रा न वक्रातिवक्रा समा°ख्यात्मिका न ।
 मृषा स्पष्टते’तहिं चाष्टौ प्रभेदा यतो नानया यान्ति नीचोच्चवृत्ते' ॥ १ ॥
 तस्मान्मन्दस्फुटा भुक्तिर्वास्तवा सा च पञ्चधा ।
 समा मन्दातिमन्दा च शी शीघ्रतरेति च ॥ २ ॥
 एतासां पूर्वमुक्तानां लक्षणं समुदाहृतम् ।
 सौरभाष्ये६ यतोऽस्माभिरधुना नोच्यते ततः ॥ ३ ॥


१. स्तादानुययुइति ग पु० ।  २. समारवा इति क ख पु० ।
३. कुटिला शून्यात्मिकेत्यर्थः ।  ४. तेहिं इति क ख ग पु० ।
५. सूर्यसिद्धान्ते ग्रहाणामष्टधा गतिर्यथा
वक्रातिवक्रा विकला मन्दा मन्दतरा समा ।
तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः । स्पष्टा० १२ श्लो० ।
६. आसामष्टविधगतीनां भाष्ये लक्षणं यथा १ वक्रारम्भ-मार्गारम्भयोर्या गतिः सा कुटिला । विकला इति वा भावः । २ वक्रगतौ अत्य या क्षीयमाणा वक्रा सैव वक्रोति । ३ या च वद्धमाना वक्रा सातिवक्रेति ॥ ४ मध्यगतेरल्पा क्षीयमाणा ऋज्वी सा मन्दतरेत्युच्यते । ५. या तु मध्यगतेरल्पा ऋज्वी वर्धमाना सा मन्देत्युच्यते ॥ ६ या तु मध्यगतेरधिका क्षीयमाणा ऋज्वी सा शीघ्रत्युच्यते ॥ ७ या तु मध्यगतेरधिका वर्धमाना ऋज्वी सातिशीघ्रेत्युच्यते ।। ८ मध्यमगतिसमा या गतिः सा समेत्युच्यते । रग्तासां राशिविशेषेषु, स्थाननिर्देश: श्रीपतिना सिद्धान्तशेखरे प्रतिपादित: ।