पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/136

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
मध्यमाधिकारेऽधिकमासादिनिष्णयाध्यायः

दृष्टा । कल्पादितो वास्तवगत्या साधितग्रहेषु कल्पादित एव वास्तवोपलब्धगत्यन्तरानुपातसिद्धान्तरसंस्कारेण दृक्समत्वं सः बहुकालं दृष्टमिति प्रत्यक्षोपलब्धमध्यगूत्यैव नूतनाः कल्पभगणाः शिष्याणा क्लेशो मा भूदिति कल्पिताः । एवं बोजजववशेनैव भगणानां भेदी जातः । इयं बीजगतिनियतोपाधावेवान्तर्गता। अत एव ।

 युगे' युगे महर्षीणां स्वयमेव विवस्वता।
 इति सूर्यसिद्धान्ते उत्तम् । किञ्च यन्मते अतीन्द्रियार्थविज्ञानं श्रुतित एव भवति तत्र तु ग्रहपातोच्चभगणानां संख्यानानात्वं वेदमूलकमिति वेदितव्यम् । श्रुतावपि कथमनेकधा पाठ इति । तत्रापीदमेवोत्तरं तत्तत्कालविशेषावच्छिन्नमध्यमगतिभिन्नत्वाभिप्रायेण वेदे नोत्तम् । किमिति वास्तवा एकविधा एव भगणा नोक्ताः । कथमेवं विधा उक्ता इति वेदं कः पर्यनुयुज्यात् । तस्मादियं बीजगतिर्नियतोपाधावन्तर्गतेत्ययमेको भेदः । अत एव स्मर्यते यस्मिन् काले येन पक्षेण दृग्गणितैक्यं दृश्यते तस्मिन् काले स एव पक्षोऽङ्गीकार्यं इति विषयव्यवस्था । अयं बीजगतिभेदो मनुष्यैः पार्थक्येन विवेत्तुं न पार्यते । कल्पादिकालादन्यस्माद्वा कालादुपचयापचयात्मकः कतिपयकाले नियतगतिद्वितीयो भेद:। यथा चाचायों वक्ष्यति 'खाभ्रखाकेंहता: कल्पयाता: समा इति। अयं पारम्पयेंणोपदेशान् मनुष्यैरपि ज्ञातुं शक्यते।

 सम्प्रति नवकलोनश्चन्द्रो दृक्सम इति तृतीयो भेदः यथा च गणेशदैवज्ञैरुक्तं ‘अङ्ककलिकोनाब्ज इति । अयञ्च मनुष्यलक्ष्यः । ‘ध्यानग्रहोपदेशादिति पूर्वं यदुक्तं २तदनयोर्भदयोविषयः । वेधस्य चित्तैकाग्रयेण यन्त्रद्वारा ग्रह [ण] ज्ञानं ध्यानग्रहशब्देनोच्यते । तस्मात् पारम्पर्योपदेशाॐच्चेत्यर्थः । तस्मादयं बीजाख्यवायुविशेषः समस्तैव्र्यस्तैर्वा गतिभेदैग्रहमुच्चं पातं वा नक्षत्र बहून्वा सर्वान् वा चालयति । नक्षत्रध्रुवकस्यापि दृक्समत्वमिष्टम् ।

 “गोलं बध्वा *परीक्षेत विक्षेपं ध्रुवकं स्फुटम्' इति सूर्यसिद्धान्तोक्तेः ।

 तस्माद्बीजसंस्करणमार्षशास्त्रमूलं लम्बनसंस्करणमधिमासनिर्णयार्थं दशन्तेि न कार्यमार्षशास्त्रविरुद्धत्वादयुक्तत्वादद्ययावत्प्रामाणिकैरकृतत्वाच्चेत्यलमनया प्रसङ्गागततन्त्रान्तरदूषणकथा प्रस्तावनय ॥६॥

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद् बुधा-
द्भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेः सुविषमो मध्याधिकारो गतः ॥
॥ इति गणिताचार्यनृसिहकृतौ मध्यमाधिकारः ।


१- सू० सि० मध्य० ८ श्लो० । २. तदसयोविषय इ ग पु० । ३. देशात्यर्थ: इ ग पु० । ४.परं रक्षेत इ ग पु० ।