पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/133

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
सिद्धान्तशिरोमणौ ग्रहगणिते

एवं सौरपक्षे शके १८८५ अाशिवघ्नोऽधिमासः पौषः क्षयमासः ।
ततः शके २०२६ भाद्रपदोऽधिमासः पौषः क्षयः ।

 ततः शके २०४५ भाद्रपदोऽधिमासः । माघः क्षयमासः । अत्रैकवाषिकी शुद्धिर्यावद्गोकुभिः कुवेदेन्दुवर्षेर्वा गुण्यते तदा तिथिस्थाने शून्यं भवतीति तैर्वर्षेः । क्षयमाससंभव उत्तः ।

 केचितु—

सवितृमण्डलमेति यदा शशी तदनुसङ्क्रमण कुरुते रवि:।
मखमहोत्सवनाशकरस्तदा मुनिवरैः कथितोऽधिकमासकः ॥

 इत्यादिवाक्यैर्योऽयमीदृशोऽधिकमासः स एव मखमहोत्सवादौ निषिद्ध इत्याहुः । अयमर्थः । योऽयं गणिते दशान्तः समायाति स किल रविचन्द्रबिम्बकेन्द्रयोगकालः । तस्मात् कालाद्रविचन्द्रबिम्बप्रान्तयोगो मानैक्यखण्डकलाकालेन पूर्वमासीद् भविष्यति च तदग्रत इति स कालः साध्योऽनुपातेन । यदि गत्यन्तरकलाभिः षष्टिघटिकास्तदा। मानैक्यखण्डकलाभिः किमिति स कालो भवति । अनेन कालेन दर्शान्त ऊनितो युक्तश्च कार्य । स तु बिम्बस्पर्शभुक्तिकालयोरन्तरमिव रविचन्द्रबिम्बकालो भवति। अमुमेव मण्डलान्तमासमित्याहुः ।

 मण्डलान्तमासानन्तरं चेद्रविसङ्क्रमणं तदाऽधिमासः सर्वकर्मसु निषिद्धो नान्यथाऽधिके निषिद्ध इति कर्मानुष्ठानोपयोगिकालप्रतिपादकग्रहगणितशास्त्रप्रवर्तकैर्मुनिभिरयं मण्डलान्तमासोऽधिकमासनिर्णयायादृतश्तेत्तदा को नाम न स्वीकुर्यात् । वेद एव धर्मे प्रमाणं नान्यदिति वादिनामृषीणां श्रुतिस्मृतिकर्मानुष्ठानोपयुक्तं यदेव स्मरणं तदपि वेदमूलकमेव । तस्मान्मण्डलान्तमास आर्षमूलकश्चेत्तदा प्रमाणिक एव कि बहुनोत्तन।

 किञ्च ग्रहयुती 'ध्रुवात्रीयमानसूत्रस्थयोरेव ग्रहयोयोगो विवक्षितः। भेदयोगे च भूपृष्ठस्थदृक्सूत्रस्थयोर्योंगो विवक्षितः । अत एव शाकल्ये भेदयोगे न दृक्कर्मदानं किन्तु ग्रहयुतिकाले लम्बनदानमन्ययोगे च न लम्बनदानं किन्तु दृक्कर्मसंस्करणमुक्तम् ।

दृक्कर्मणैव तत्सिद्धेर्भग्रहग्रहसंयुतौ ॥*
लम्बनावनती स्याता3 मपि सत्यन्तरद्रये ॥
इष्टं लम्बनमन्यत्र यदिष्टाऽवनतिर्भवेत् ॥ इति ॥

 अमा साद्ध वसतः सूर्याचन्द्रमसौ यस्यां साऽमावास्येति शब्देन दशांन्त उच्यते । अत्र दर्शान्तकाले भूगर्भात्रीयमानमर्कोपरि यत्सूत्र तत्सूत्रस्थयोरेव रविचन्द्रयोयोगः स्वीकृतः । तनोति विस्तारयति वर्धमानां क्षीयमाणां वा चन्द्रकलां यः कालविशेषः स तिथिशब्देनोच्यत इत्यत्रापि भूगर्भाक्षीयमानमर्को प्रति यत्सूत्र यच्च भूगर्भाच्चन्द्र प्रति नीयमानं तत्सूत्रयोरन्तरं यदा द्वादशभागमितं तदैकैका तिथिरिति मुनिभिः स्वीकृतम् । यत्र तेषां मुनीनां यादृशी गणितरचना तत्र स्थले तादृशोऽर्थस्तेषां सम्मतो विवक्षित


१. कुर्वन क० ख० पु० । २. संगतौ क ख ग पु० । ३. नस्ता क ख ग पु० ।