पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/128

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारेऽधिकमासादिनिणयाध्यायः く。 इदानीं लघुदिनौघविषयमाह। WM N N » N ܝܢܡ ܔ अथैवमेवाल्पदिवागणेऽपि सैकं निरेकं च तदावमाग्रम् । तथाधिमासस्य तिथीगृहीत्वा लघुर्दिनौघः सुधिया प्रसाध्यः ॥ २ ॥ वा० भा०-लध्वहर्गणे सैके निरेके तिथयोऽपि सैका निरेकाः। तत्रावमशेषमपि सैक निरेकं कार्यम् । यतस्तत्रावमानयने रूपगुणा एव तिथयश्चतुःषष्टया हृताः । अथ लघ्वहर्गणे साध्यमानेऽभीष्टाहचैत्राद्यन्तरे यद्यधिमासोऽस्ति तदा तस्यापि तिथीर्गृहीत्वा लघुर्दिनौघः साध्यः । अत्र लघुरिति विशेषणाद्बृहदहर्गणे न ग्राह्याः । यतस्तत्राधिमासानयनेन लब्धाधिमासे ता युक्ता भविष्यन्ति । लघ्वहर्गणानयने त्वब्दान्तादूध्र्वमधिमासानयनस्याभावात् तत्रावशयं योज्याः ॥ २ ॥ इदानीमन्यदाह । स्पष्टोऽधिमासः पतितोऽप्यलब्धो यदा यदा वाऽपतितोऽपि लब्धः । ra VINM ra ra ܠܠ ܟܕ ܘܼܢܝ ܠܝ ܠ सैकैर्निरेकैः क्रमशोऽधिमासैस्तदा दिनौघः सुधिया प्रसाध्यः ॥ ३ ॥ कृत्वा युतोनं क्रमशोऽधिशेषं दिनीकृतैः कल्पभवाधिमासैः । सैकान्निरेकान्मधुयातमासांस्ततः प्रसाध्यौ खलु पुष्पवन्तौ ॥ ४ ॥ वा० भा०-अथाहगणानयने योऽधिमास आगच्छति स मध्यममानेन । यदा स्पष्टोऽधिमासः पतितः । अथ चाहर्गणानयने न लब्धस्तदा लब्धाधिमासान् सैकान् कृत्वाऽहर्गणः साध्यः । तदा यदधिमासशेषमागतं तच्च युतं कार्यम् ॥ फैः । दिनीकृतैः कल्पभवाधिमासैः ॥ तथा चैत्रादिमासान् सैकान् कृत्वा चन्द्राकाँ साध्यौ । यदा वाऽपतितोऽपि लब्धस्तदास्माद्विपरीतम् ॥ एतदुक्तं भवति । यदा स्पष्टोऽधिमासः पतितस्तदाऽलब्धोपि ग्राह्यः । यदा न पतितस्तदा। लब्धोऽपि न ग्राह्यः । तदाधिमासशेषं कल्पाधिमासैदिनीकृतैर्यथाक्रमं युतोनं कार्यम् ॥ यतस्त्रशता देिनगणोऽन्तरितः ॥ तस्मादधिमासशेषाच्चन्द्राकाँ साध्यौ । तदा चैत्रादयो मासाः सैका निरेकाश्च प्राह्याश्चन्द्राकसाधने । ३-४ । इदानी शुद्धी विशेषमाह । शुद्ध्यागमें त्वपतितोऽपि स लभ्यतेचेच्छुद्ध्या तदा खदहनै ३० युतया दिनौघः । एतद्विदन्ति सुधियः स्वयमेव किन्तु बालावबोधविधये मयका निरुतम् ॥ ५ । वा० भा०-शुद्ध्यानयने स स्पष्टोऽधिमासोऽपतितोऽपि यदि लभ्यते तदा सोऽपि न प्राह्यः ॥ तस्मिन्न गृहीते त्रिशदधिका शुद्धिर्भवति । तयाहर्गणस्तदा कर्तुं युज्यते । स्पष्टाधिमासस्य ग्रहणात् ॥ ५ ॥