पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/107

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
सिद्धान्तशिरोमणौ ग्रहगणिते

 इदानीमहर्गणादपि कल्पगतमाह ।

अभिमतयुगणादवर्मेर्हतान् क्षितिदिनाप्तगतावमसंयुतः । ।
दिनगणः स भवेत् तिथिसञ्चयः पृथगतोऽधिकमाससमाहतात् ॥१६॥
विधुदिनाप्तगताधिकमासर्कः कृतदिनै रहितोऽर्कदिनोच्चयः ।
भवति मासगणः खगुणो३०द्धृतो रवि१२हृतः स च कल्पगताः समाः ।।१७॥।

 वा० भा०- स्पष्टार्थमिदम्।

 अत्रोपपत्तिस्त्रैराशिकाभ्याम् । अहर्गणानयनाद्विलोमप्रकारेण कल्पगतानयर्न सुगमम् ॥ १६-१७ ।

 इदानी कलिगतादप्यहगंणादिकमाह ।

कलिगतादथ वा दिनसञ्चयो दिनपतिर्भृगुजप्रभृतिस्तदा' ।
कलिमुखधुवकेण समन्वितो भवति तद्द्युगणोद्भवखेचरः। १८ ॥।

 वा० भा०--अत्र कलिगताहर्गणेऽयं विशेषः । शुक्राद्यो वारो गणनीयः । अतः कल्प*गताहर्गणात् कलिमुखे शुक्रवारो भवति । तत्र च ये ग्रहास्ते ध्रुवसंज्ञाः कल्पिताः । तद्युगणभवः खेचरश्च कलिमुखध्रुवकेण समन्वितः कार्य इत्यत्र वासनाऽपि सुगमा ॥ १८ ॥

 इदानी कलिमुखग्रहानाह ।

खाद्रिरामाग्नयः ३३७० कग्निरामाङ्कका ९३३१
वेदवेदाङ्कचन्द्रा १९४४ विलिप्ताः क्रमात् ।
षड्रसाङ्गब्धयो-४६६६ऽङ्गाभ्रवेदाब्धयो ४४०६
वेदषट्काभ्रभूपाभ्रभूसंमिताः १०१६०६४ । १९ ।।
वेदचन्द्रद्विवेदाब्धिनागाः ८४४ २१४ कर
द्वयब्धिवेदाब्धिशैला ७४४४२२ भवेयुः कुजात् ।
द्वापरान्तध्रुवाश्चक्रशुद्वास्तथा
सूर्यतुङ्गेन्दुतुङ्गेन्दुपातोद्भवाः ॥ २० ।।।

 वा० भा-कुजादीनां सर्वेषां ध्रुवाश्चक्रशुद्धाः पठिता लाघवार्थम्। स्पष्टार्थ मिदम् ।। १९-२० ।।


१. श्रीमत्पण्डितशिरोमणिबापूदेवानुकम्पितश्वन्द्रदेवः ।
 तिथ्यक्षयुगवेदाब्धिरामाङ्गनखभूधराः ७२०६३४४४२७१५ ।।
द्युगणेन कलेर्युक्ताः कल्पादेयुँगणो भवेत् ।'