पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/104

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
मध्यमाधिकारे ग्रहानयनाध्यायः

 तत्रानुपातः । यद्येकेन सावनेन रविगतिर्लभ्यते तदाऽवमशेषेण किमिति रवि2गतिर्मुणो हरस्तु कल्पचान्द्राहः ।

 गुणहरौ 'गुणेनापवत्र्यं रविहरः कृतः । रविगत्या चन्द्रगतौ हृतायां स्वपञ्चत्रिशांशयुक्तास्त्रयोदशल*ब्धाः । अतः सर्वं निरवद्यम् ।

 चन्द्राहतुल्येन परमावशेषेण रविगतिलभ्यते तदेष्टेन किमित्यनुपातः कृतो भाष्यकारेण स त्वयुक्त एव ।

 'महीमितादर्हणात्फलानी’ति सावनदिवस एव रविमध्यकला वक्ष्यन्ते न चान्द्रे । तस्मात्तावदिदमयुक्तम् । चान्द्रगणसाधितावमशेषस्य सावनस्येच्छास्थानीयस्य प्रमाणस्थानीयचान्द्राद्विजातीयत्वमपि दोषावहम् । त्रैराशिके प्रमाणेच्छयोः समानजातित्वनियमात् । समानजातित्वं सादृश्यादवगम्यते । सादृश्यमुपाधिना क्वचिदवगम्यते ।। अशीतिवराष्टकप्रमाणक [स्य पण ]° स्याशीतिवराटकमानपणे: सादृश्यावबोधः । क्वचिज्जात्याऽपि । घटानां घटैः ।

 'त्रिज्ये पृथक् कोटिभुजाहते ते कणोंद्भुते लम्बपलज्यके स्त:।'

 *[इत्यत्र सर्वेष्वक्षक्षेत्रेषु पलभा भुजो, द्वादश कोटिः, पलकर्णः कर्णं, इत्येव (क्षेत्र) मावर्त्तत इत्युपाधि] नैव प्रमाणेच्छयोः समानजातित्वमिति न कश्चिद्दोषः । प्रकृते तु चान्द्रमिदं सावनमिदमित्युपाधिभेदेनैव प्रमाणेच्छयोः समानजातित्वमिति न कश्चिद् भेदस्य सुज्ञानत्वात्। प्रमाणेच्छयोविसदृशत्वं न दण्डेन परानूद्यते ।

 अतोऽन्यथा भाष्यं व्याक्रियते । तावच्चन्द्रदिनमध्ये सावनं पूर्वोत्तप्रकारेण ज्ञात्वा तन्मध्ये रवि'गतिमानमानयेत् । चान्द्राहतुल्येनेत्यत्र चान्द्रे दिनेऽहः सावनं तच्चन्द्राहशब्देनोच्यते । इयमानीता रविगतिश्च रविगतिशब्देनोच्यते । तस्माद्युत्तोऽयमनुपातः । चान्द्रान्तर्वक्तिना सावनेन तन्मध्यवत्तिनी गतिलभ्यते तदाऽ [६वमशेषेण किमिति । यद्वाऽवमशेषस्य ] कल्पञ्चान्द्राः हरस्तस्मात् परमावमशेषं कल्पचान्द्रतुल्यमेव स्यातदेकसा वनतुल्यमतो युक्तोऽनुपातश्चान्द्राहतुल्येन परमावमशेषेणेति ।

 अत्र चान्द्राहपदेन कल्पचान्द्रा उच्यन्ते ॥६-७॥

 इदानों प्रकारान्तरेण ग्रहानपनमाह।

अर्कसावनदिवागणो हतः स्वस्वसावनदिनैस्तु कल्पजैः ।
खाभ्रबाणगिरिरामखत्रिगोशक्रविश्व-१३१४९३०३७५००
विहृदाप्तराशिभिः ।। ८ ॥


१. गुणोना क ख पु० । २. त्रयोदश लध्वाः क ख पु० ।
३. कोष्ठान्तर्गतोंऽशो ग पु० नास्ति। ४. अयमंशो नास्ति ग पु० ।
५. गतिसमानयेदिति ग पु० । ६. अयमंशो नोपलभ्यते ग ६० ॥