१८७७ । तावतिथं ग्रहणमिति लुग्वा । (५-२-७७)
कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं-द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः । “तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक्’ (वा ३१७२) । षष्ठेन रूपेण गृह्णाति पट्को देवदत्तः । पञ्चकः ।
१८७८ । स एषां ग्रामणीः । (५-२-७८)
देवदत्तो मुख्यो एषां देवदत्तकाः । त्वत्काः । मत्काः ।
१८७९ । शृङ्खलमस्य बन्धनं करभे । (५-२-७९)
शृङ्खलकः करभः ।
१८८० । उत्क उन्मनाः । (५-२-८०)
उद्गतमनस्कवृत्तेरुच्छब्दात्स्वार्थे कन् । उत्क: उत्कण्ठितः ।
१८८१ । कालप्रयोजनाद्रोगे । (५-२-८१)
लाक्षणिक इति भावः ! तावतिथम् ॥ तावताम्पूरणन्तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । तृतीयार्थे प्रथमा । ग्रहणमिति भावे ल्युडन्तम् । तथाच तृतीयान्तात्पूरणप्रत्ययान्तात् ग्रहणमित्यर्थे कन् स्यात्पूरणप्रत्ययस्य च लुग्वेत्यर्थः इत्यभिप्रेत्य आह । कन् स्यादित्यादि ॥ पूरणप्रत्ययान्तस्य तु प्रकृतिभूतस्य न लुक् । किन्तु पूरणप्रत्ययमात्रस्य “षष्ठेन गृह्णाति षट्क:’ इति भाप्योदाहरणात् । द्वितीयेन रूपेणेति ।। अनेन द्वितीयैव समर्थविभक्ति रिति सूचितम् । इतिना लोकानुसारित्वङ्गम्यते । एवञ्च ग्रन्थविषये एवमेव ग्रहणमिह फलति तेन द्वितीयङ्ग्रहणन्देवदत्तेन दण्डस्येत्यादौ न भवति । तावतिथेनेति ॥ ग्रहणेऽर्थे विहितङ्ग्रहीतरि न प्राप्नोतीत्यारम्भः । षट्को देवदत्त इति ॥ भाष्ये एवमेवोदाहृतत्वात् पूरणप्ररत्ययस्यैव लुगिति गम्यते । नतु तदन्तस्य । सएषाङ्ग्रामणीः ॥ ग्रामणीविशेषवाचकात् शब्दात्प्रथमान्तात् अस्येत्यर्थे कन् स्यादित्यर्थः । देवदत्तो मुख्यो एषामिति ।। एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् । “ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु” इत्यमरः । त्वत्काः, मत्काः इति ।। त्वमहं वा मुख्यो एषामिति विग्रहः । प्रत्ययोत्तरपदयोश्चेति त्वमौ । शृङ्खलमस्य ।। षष्ठ्यर्थे प्रथमा । बन्धनमिति करणे ल्युट् । अस्य करभस्य शृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणकात् प्रथमान्तात् अस्य करभस्येत्यर्थे कन् स्यादित्यर्थः । श्रृङ्खलकः करभ इति ॥ श्रृङ्खलेन बद्ध इति यावत् । करभः उष्ट्रः । उत्क उन्मनाः ॥ उद्रतमनस्कवृत्तेरिति ॥ उत्कण्ठितवृत्तेरित्यर्थः । कालप्रयोजनाद्रोगे ॥ काल, प्रयोजन, अनयोः समाहारद्वन्द्वः । तदाह । कालवचनात् P 110