सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५६
[पाञ्चमिक
सिद्धान्तकौमुदीसहिता

सर्वादेः पथ्याद्यन्ताद्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्व- पथीनः । सर्वाङ्गीणः । सर्वकर्मीणः। सर्वपत्त्रीणः । सर्वपात्रीणः ।

१८०९ । आप्रपदं प्राप्तोति । (५-२-८)

पादस्याग्रं प्रपदं, तन्मर्यादीकृत्य आप्रपदम्, आप्रपदीनः पटः ।

१८१० । अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । (५-२-९)

अनुरायामे सादृश्ये वा । अनुपदं बद्धा अनुपदीना उपानत् । सर्वा न्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः । तं नेयः अयानयीनः शारः

१८११ ॥ परोवरपरम्परपुत्रपौत्रमनुभवति । (५-२-१०)

परांश्चावरांश्चानुभवतीति परोवरीण : । अवरस्योत्त्वं निपात्यते । परांश्च परतररांश्चानुभवति परम्परीणः । प्रकृतेः परंपरभावो निपात्यते । पुत्रपौत्रान्


व्याप्नोतीत्यत्रान्वेति । ततश्च तद्व्याप्नोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः प्रातिपदिकेभ्यो द्वितीयान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह । सर्वादेरित्यादिना॥ सर्वपथानिति ॥ 'ऋक्पूः’ इति समासान्तः । आप्रपदम् ॥ प्रपदमित्यव्ययीभावात् द्वितीयान्तात्प्राप्नोतीत्यर्थे खः स्यादित्यर्थः । पदस्याग्रं प्रपदमिति ॥ "पादाग्रं प्रपदम्” इत्यमरः । आप्रपदमिति ।। ‘आङ्मर्यादाभिविध्योः' इत्यव्ययीभावः । अनुपद ॥ अनुपद, सर्वान्न, अयानय एषां समाहारद्वन्द्वात् द्वितीया । बद्धा भक्षयति नेय एषां द्वन्द्वात् सप्तमी । तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्वद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति ।। आद्ये ‘यस्य चायामः' इत्यव्ययीभावः ।द्वितीये सादृश्ये अव्ययी भावः। अनुपदं बद्धेति ॥ क्रियाविशेषणत्वाद्वितीया । अनुपदीना उपानदिति ॥ पदसम्बन्धि दैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः । पदेन सदृशीति वा । ततुल्यपरिमाणेति यावत् । अयानयः इति ।। द्यूते शाराणां प्रदक्षिणपरिवर्तनं अयः । प्रसव्यपरिवर्तनं अनयः । अयसहितः अनयः अयानयः । प्रदक्षिणप्रसव्यगामिनां यस्मिन् युग्मादिपदे स्थितानां परकीयैः शारैरनाक्रमणे तत्स्थानमिह अयानयशब्देन लक्षणयोच्यते इत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् । 'ससहायस्य शारस्य परैर्नाक्रम्यते पदम्। असहायस्तु शारेण परकीयेण बाध्द्यते ॥’ इति द्यूतशास्त्रमर्यादा । विस्तरतु कैयटमनोरमादावनुसन्धेयः । तन्नेय इति ॥ तं स्थानविशेषमयानयाख्यं प्रापणीय इत्यर्थः । णीञ् द्विकर्मकः प्रधाने कर्मणि यत् । ‘अप्रधाने द्वितीया’ इति भावकर्मलकारप्रक्रियायां वक्ष्यते । परोवर ॥ परोवर, परम्पर, पुत्रपौत्र, एभ्यो द्वितीयान्तेभ्यः अनुभवतीत्यर्थे खः स्यादित्यर्थः । परोवरीण इति ॥ परे च अवरे च परावरे । ताननुभवतीत्यर्थः । अवरस्योत्वमिति ॥ अवरशब्दस्य आदेरकारस्य खप्रत्ययसान्नेयोगेन उत्वं निपात्यते