इतः परं ये भावप्रत्ययास्ते नञ्-तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा अपतित्वम् । अपटुत्वम् * नञ्-पूर्वात्' किम् । बार्हस्पत्यम् । “तत्पुरुषात् किम् । नास्य पटवः सन्तीत्यपटुः तस्य भावः आपटवम् । 'अचतुर-' इति किम्। आचातुर्यम् । आसङ्गत्यम्। आलवण्यम् । आवट्यम् । आयुध्यम्। आकत्यम्। आरस्यम्। आलस्यम् ।
१७८४ । पृथ्वादिभ्य इमनिज्वा । (५-१-१२२)
वावचनमणादिसमावेशार्थम्
१७८५ । र ऋतो हलादेर्लघोः । (६-४-१६१)
हलादेर्लघोर्ऋकारस्य र: स्यात् इष्टमेयस्सु
१७८६ । टेः । (६-४-१५५)
[नव्न्नरुधिकार इत्युत्तरस्य प्रतिषेध इति भाष्यादिति भावः |चतुरादीनिति|| चतुर,सङ्गत,लवण,वट, बुध, कत, रस, लस, एतान् वर्जयित्वेत्यर्थः । अपातित्वमिति ॥ इह ‘पत्यन्तपुरोहितादिभ्यः' इति यक् न भवति । अपटुत्वमिति । इह 'इगन्ताच लघुपूर्वात्' इत्यण् न भवति। बार्हस्पत्यमिति ॥ “पत्यन्तपुरोहितादिभ्यः’ इति यक् । आपटवमिति|| 'इगन्ताश्च लधुपूर्वात्' इत्यण् । अपटुशब्दस्य बहुव्रीहित्वात्तत्पुरुषत्वाभावान्नास्याणो निषेध इति भावः|आचातुर्यमिति ॥ अचतुरस्य भावः ब्राह्मणादित्वात्ष्यञ् । आसङ्गत्यमिति ॥ असङ्गतशब्दात् ष्यञ् आलावण्यमिति॥ अलवणशब्दात् ष्यञ् । आकत्यमितिअकतशब्दात् ष्यञ्। आरस्यमिति॥ अरसशब्दात् ष्यञ्। आलस्यमिति॥ लसतिः लसः न लसः अलसःतस्मात् ष्यञ् । पृथ्वादिभ्य इमानिज्वा ॥ तस्य भावः इत्यनुवर्तते । पृथ्वादिभ्यः षष्ठ्यन्तेभ्यः भावे इमनिज् वा स्यादित्यर्थः । ननु चाग्रहणं व्यर्थम्। ’समर्थानाम्प्रथमाद्वा' इति महाविभाषयैव वाक्यस्य सिद्धत्वात् । नच इमनिजभावे त्वतल्प्रत्ययार्थं वाग्रहणमिति वाच्यम् । आचत्वादित्येव तत्समा वेशसिद्धेरित्य आह । वावचनमणादिसमावेशार्थमिति ॥ पृथुमृदुप्रभृतिषु 'इगन्ताश्च लघुपूर्वात्' इत्यण् चण्डखण्डादिषु गुणवचनलक्षणष्यञ बालवत्सादिषु वयोवचनलक्षणस्य अञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः । अन्यथा महाविभाषावशादपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति “पारे मध्ये षष्ठ्या वा' इति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच् त्वतलामभावे तेषां प्रवृत्तिर्न स्यादिति भावः> र ऋतो हलादे॥ र इति प्रथमान्तम् इष्टमेयस्स्विविति शेषपूरणम्। ’तुरिष्टमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः। अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोः ऋकारस्य र इति रेफाकारसङ्घात आदेशः स्यात् । इष्टनि इमनि ईयसि च परे इत्यर्थः । टेः ॥इष्ठेमेयस्तु