पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८०
[शैषिक
सिद्धान्तकौमुदीसहिता

१४९५ । उपज्ञाते । (४-३-११५)

तेन' इत्येव । पाणिनिनोपज्ञातं पाणिनीयम् ।

१४९६ । कृते ग्रन्थे । (४-३-११६)

वररुचिना कृतो वाररुचो ग्रन्थ: ।

१४९७ । संज्ञायाम् । (४-३-११७)

तेन' इत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिक मधु ।

१४९८ । कुलालादिभ्यो वुञ् । (४-३-११८)

तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ।

१४९९ । क्षुद्राभ्रमरवटरपाद्पादञ् । (४-३-११९)

तेन कृते संज्ञायाम्। क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम्। पादपम्।

१५०० । तस्येदम् । (४-३-१२०)

उपगोरिदमौपगवम् । *वहेस्तुरणिट् च' (वा १९१०) । संवोढुः स्वं सांवहेित्रम् । ‘अग्नीधः शरणे रण भत्वं च' (वा २९११) । अग्निमिन्धे अग्नीत्।


यञ्च ॥ उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः । उपज्ञाते ॥ तनोपज्ञातमित्यर्थे तृतीया न्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं प्रथमज्ञातम् । कृते ग्रन्थे ॥ तेन कृतो ग्रन्थः इत्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायाम् ॥ तेनेत्येवेति ॥ तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । ग्रन्थे इति नानुवर्तते । तदाह । अग्रन्थार्थमिति । कुलालादिभ्यो वुञ् ॥ तेन कृते सज्ञायामिति शेषपूरणम् । वारुडकमिति ॥ वरुडो जातिविशेषः । क्षुद्राभ्रमर ॥ तेन कृते संज्ञायामिति शेष पूरणम्। क्षुद्रा मधुमक्षिकाः। तस्येदम्। इदमित्यर्थे षष्ठयन्तादणादयः साधारणप्रत्ययाः राष्ट्रावारे त्यादिविशिष्यविहिताः घादयश्च प्रत्ययाः यथाविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरर्थ्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनान्तु न केनापि रूपेण इदंशब्दार्थत्वमिति “तस्यापत्यम्' इत्यत्रोक्तम् । वहेस्तुरणिट् चेति ॥ वार्तिकमिदम् । तुरिति तृन्तृचोः सामान्येन ग्रहणम् । वहधातो र्विहितः यः तृप्रत्ययः तस्मादण् स्यात् तृप्रत्ययस्य इडागमश्च । तत्र अण् पूर्वेण सिद्धः इड़्विध्यर्थमनूद्यते । संवोदुः स्वमिति । विग्रहप्रदर्शनम्। वहेस्तृच्, तृन् वा । वहेरनु दात्तत्वात् 'एकाच उपदेशे' इति नेट् । 'सहिवहोरोदवर्णस्य’ इत्योत्त्वम् । ढत्वधत्वष्टत्व ढलोपाः । सांवहेित्रमिति ॥ ढत्वादीनामसिद्धत्वादलौकिक एव विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताभावान्न ढत्वादि । अग्नीधश्शरणे रण भत्वञ्चेति ॥ वार्तिकमिदम् ।