१३८५ । श्वसस्तुट् च । (४-३-१५)
श्वस्शब्दाठञ्वा स्यात् । तस्य तुडागमश्च ।
१३८६ । द्वारादीनां च । (७-३-४)
द्वार, स्वर, स्वाध्याय, व्यल्कश, स्वस्ति, स्वर् , स्फ्यकृत् ; स्वादु, मृदु, श्वस्, श्वन्, स्व, एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ।
१३८७ । सन्धिवेलादृतुनक्षत्रेऽभ्योऽण् । (४-३-१६)
सन्धिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण्स्यात् । सन्धि वेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, सन्ध्या, अमावस्याः त्रयोदशी, चतुर्दशी, पौर्णमासी, प्रतिपत् । “संवत्सरात्फलपर्वणोः' (ग सू ९२) । सांवत्सरं फलं, पर्व वा । सांवत्सरिकमन्यत् ।
१३८८ । प्रावृष एण्यः । (४-३-१७)
प्रावृषेण्यः ।
१३८९ । वर्षाभ्यष्ठक् । (४-३-१८)
वर्षासु साधु वार्षिकं वासः । “कालात्साधुपुष्प्यत्पच्यमानेषु' (सू १४१८) इति साध्वर्थे ।
प्राप्ते विकल्पोऽयम् । श्वसस्तुट् च ॥ तस्येति ॥ प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः । द्वारादीनाञ्च ॥ “न य्वाभ्याम्' इति सूत्रम्पदान्ताभ्यामिति वर्जम् अनुवर्तते मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । तदाह । एषान्न वृद्धिरैजागमश्चेति ॥ द्वारादीनान्नादि वृद्धिः, किन्तु यकारवकाराभ्याम्पूर्वौ ऐजागमौ स्त इत्यर्थः । अत्र यकारवकारयोरपदान्तत्वात् नय्वाभ्याम्पदान्ताभ्याम्’ इत्यप्राप्ते वचनामिदम् । शौवस्तिकमिति ॥ श्वसः इत्यव्ययात् जाता द्यर्थे ठञि इकादेशे तुडागमे वकारात्पूर्वमैजागमेन औकारः । अकारस्य न वृद्धिः । सन्धि वेला ॥ कालवृत्तिभ्य इति ॥ ‘कालाट्ठञ्’ इत्यतस्तदनुवृत्तेरिति भावः । ठञोऽपवादः । तैष मिति । तिष्ये भवादीत्यर्थः । ‘तिष्यपुष्ययोर्नक्षत्राणि’ इति यलोपः । तिष्ये जातः इत्यर्थे 'श्रविष्टा फल्गुनी' इति लुग्वक्ष्यते । सन्धिवेलादिगणम्पठति । सन्धिवेलेल्यादि । संवत्सरात्फल पर्वणोरिति । गणसूत्रमिदम् । प्रावृष एण्यः ॥ ऋत्वणोऽपवादः । प्रावृषेण्य इति ॥ प्रावृट् वर्षऋतुः । तत्र भवादिरित्यर्थः । जाते तु ठप् वक्ष्यते । प्रक्रियालाघवार्थ णकारोच्चारणम् । वर्षाभ्यष्टक् ॥ तृतीयर्तौ वर्षाशब्दो नित्यम्बहुवचनान्तः । “अप्सुमन:समासिकतावर्षाणा म्बहुत्वम्' इति लिङ्गानुशासनसूत्रात् । “स्त्रियाम्प्रावृट् स्त्रियाम्भूम्नि वर्षाः” इत्यमरः । वर्षा शब्दाज्जाताद्यर्थे ठगित्यर्थः । वर्षासु साध्विति ॥ हितकारीत्यर्थः । ननु “तत्र साधुः' इति