१३७४ । अर्धाद्यत् । (४-३-४)
अर्ध्यः ।
१३७५ । परावराधमोत्तमपूर्वाच्च । (४-३-५)
परार्ध्यम् । अवरार्ध्यम् । अधमार्ध्यम् । उत्तमार्ध्यम् ।
१३७६ । दिक्पूर्वपदाट्ठञ्च । (-३-६)
चाद्यत् । पौर्वार्धिकम्-पूर्वार्ध्यम् ।
१३७७ । ग्रामजनपदैकदेशाद्ञ्ठञौ । (४-३-७)
ग्रामैकदेशवाचिनो जनपदैकदेशवचिनश्च दिक्पूर्वपदाद्धान्तादञ्ठञौ स्तः । इमे अस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धा:-पौर्वाधिकाः । ग्रामस्य पूर्वस्मिन्नर्धे भवाः इति तद्धितार्थे समासः । ठञ्ग्रहणं स्पष्टार्थम् । अञ्चेत्यु त्तेर्यतोऽप्यनुकर्षः सम्भाव्येत ।
१३७८ । मध्यान्मः । (४-३-८)
मध्यम ।
१३७९ । अ सांप्रतिके । (४-३-९)
मध्यशब्दाद्कारप्रत्ययः स्यात्साम्प्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ।
छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयेोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाभावान्न शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्रः इत्युदाहरणम् । अर्धाद्यत् ॥ अर्ध्य इति ॥ अर्धे जातादिरित्यर्थः । 'सपूर्वपदाट्ठञ् वाच्यः' इति वार्तिकं भाष्ये स्थितम् । बालेयार्धिकः । परावर ॥ अर्धाद्यदिति शेषः । अवरशब्दो दन्तोष्ठयवकारमध्यः । दिक्पूर्वपदाट्ठञ् च || अर्धादित्येव । परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव विशिष्य विहितत्वात् । ग्रामजनपद ॥ ननु अण्ज्जी चेवत्येतावतैव चकारात् ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह । ठञ्ग्रहण मिति । ननु अनि चेत्युक्तेऽपि वकाराट्ठोऽनुकर्षः स्पष्ट एवेत्यत आह । अञ् चेत्युक्ते रित्यादि ॥ मध्यान्मः ॥ स्पष्टम् । अ साम्प्रतिके ॥ अ इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह । मध्यशब्दादित्यादि । सम्प्रतीत्यव्ययम् । उत्कर्षापकर्ष हीनत्वात्मकसाम्ये वर्तते । तैत्तिरीये “अनाप्तश्चत्तूरात्रोऽतिरिक्तः षड्रात्रोऽथबा एष सम्प्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । पञ्चरात्रः न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः । सम्प्रतिशब्दात् स्वार्थे विनयादित्वाट्ठञि साम्प्रतिकम् । प्रज्ञादित्वात् स्वार्थे अणि तु साम्प्रत मित्यपि भवति। ‘एतर्हि सम्प्रतीति’ इति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् ।