पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६०५
बालमनोरमा

बाधित्वा इत् । 'वृद्धौ' किम् । आग्नेन्द्रः । “ नेन्द्रस्य परस्य’ (सू १२४०) इत्युत्तरपदवृद्धिप्रतिषेधः । “ विष्णौ न' (वा ३९०९) । आग्नावैष्णवम् ।

९२६ । दिवो द्यावा । (६-३-२९)

देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामे ।

९२७ । दिवसश्च पृथिव्याम् । (६-३-३०)

दिवः इत्येव चाद्द-यावा । आदेशेऽकारोच्चारणं सकारस्य रुत्वं माभू दित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ—द्यावापृथिव्यौ । * छन्दसि दृष्टा नुविधिः। द्यावाचिदस्मैै पृथिवी दिवस्पृथिव्योररतिः इत्यत्र पदकाराः विसर्गं पठन्ति ।


  • भुक्तवन्तं प्रति मा भुङ्क्थाः इति, किं तेन कृतं स्यात्” इति, अत आह । अलौकिके

विग्रहवाक्ये इति ॥ अग्नि, मरुत्, औ, देवते, अस्येति, अग्नि, वरुण, औ, देवते अस्येति च तद्धितालौकिकविग्रहवाक्ये आनडीत्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीम् उत्तरपदस्य वृद्धिमत्वं नास्ति । तद्धिताभावात् । तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्वमिह विवक्षितमिति भावः । आग्नेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ । “देवताद्वन्द्वे च इत्यानड् । आद्गुणः । अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः । 'साऽस्य देवता' इत्यण् । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्वाभावात् ‘इद्वृद्धौ' इति नेति भावः । ‘देवताद्वन्द्वे च' इत्युभयपद वृद्धिमाशङ्कय आह । नेन्द्रस्येति । विष्णौ नेति । विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । आग्नावैष्णवमिति । अग्निश्च विष्णुश्च अग्नाविष्णू । “देवताद्वन्द्वे च इत्यानङ् । अग्नाविष्णू देवते अस्येत्यर्थे ‘साऽस्य देवता’ इत्यण् । आग्नावैष्णवं हविः । “देवताद्वन्द्वे च' इत्युभयपदवृद्धिः । इत्त्वाभावादानडेव । दिवो द्यावा । शेषपूरणेन सूत्रं व्याचष्टे । देवता द्वन्दे इति । द्यावाभूमी इति । द्यौश्च भूमिश्चेति विग्रहः । द्यावाक्षामे इति ॥ द्यावाक्षामारुक्मो अन्तर्विभाति देवाः” इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । द्यौश्च क्षामा चेति विग्रहः । क्षामाशब्दो भूमिपर्यायः वेदे । तत्र द्वन्द्वे दिवो द्यावादेशः । षष्ठयास्तु सुपां सुलुक्’ इति डादेशः “देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम् । दिवसश्च पृथिव्याम् ॥ दिवः इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः । स्वरित त्वादिति भावः । तर्हि चकारः व्यर्थ इत्यत आह । चादिति । तथाच दिव्शब्दस्य दिवसा देशः द्यावादेशश्च स्यात् । पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः । दिवस्पृथिव्या इत्यत्र सकारादकारस्याश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यम्भावात् आदेश सकारादकारोच्चार णस्य कैि प्रयोजनमित्यत आह । आदेशेऽकारोच्चारणमिति । सामर्थ्यात् 'ससजुषो रूः इति रुत्वं नेति भावः । ननु “द्यावाचिदस्मै पृथिवी सन्तमेते” इत्यत्र दिव्शब्दष्टथिवीशब्दयो कथं द्वन्द्वः ? कथं वा दिवो द्यावादेशः ? उत्तरपदस्य चिदस्मै इत्यनेन व्यवहितत्वादित्यत आह ।