पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६०३
बालमनोरमा

विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्रातारः । मातापितरौ । “पुत्रऽन्यतरस्याम् (सू १९८०) इत्यतो मण्डूकप्लुत्या “पुत्रे' इत्यनुवृत्तेः पितापुत्रौ ।

९२२ । देवताद्वन्द्वे च । (६-३-२६)

इहोत्तरपदे परे आनङ् । मित्रावरुणों “वायुशब्दप्रयोगे प्रतिषेधः (वा ३९०७) । अग्निवायू-वाय्वग्नी । पुनर्द्धन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परि ग्रहार्थम् । तेन 'ब्रह्मप्रजापती' इत्यादौ' नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतम्, नापि लोके प्रसिद्धं साहचर्यम् ।

९२३ । ईदग्नेः सोमवरुणयोः । (६-३-२७)

देवताद्वन्द्वे इत्येव ।


नामिति । विद्यासम्बन्धवाचिनां योनिसम्बन्धवाचिनां चेत्यर्थः । * ऋतो विद्यायोनि सम्बन्धेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । ऋदन्तानामिति । बहुत्वे व्यत्ययेन 'ऋतः इत्येकवचनम् । ऋदन्तसर्वावयवकानामित्यर्थः । ऋत इत्यनुवर्तमाने पुनः ऋत इत्युक्तिः एतदर्थेति भावः । उत्तरपदे परे इति । “अलुगुत्तरपदे' इत्यधिकारादिति भावः । होतापोता राविति । होता च पोता चेति विग्रहः । विद्याद्वारकैकयज्ञत्विक्कृतस्सम्बन्धः । आनड़ि डकार इत्, अकार उच्चारणार्थः, “डिच्च' इत्यन्तादेशः, नलोपः । “नकारस्तु रपरत्वनिवृत्त्यर्थः इति भाष्ये स्पष्टम् । होतृपोत्रिति । अत्र होतृशब्दस्य पोतृशब्दस्य च नानङ् । नेष्टृ शब्देन व्यवधानात् । उत्तरपदपरकत्वाभावात् । तथाच नष्टशब्दस्यैवानङ् । उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्टृशब्दस्याऽऽनङ्कदर्शनात् । अथ योनिसम्बन्ध मुदाहरति । मातापितराविति ॥ पितृपितामहाः इत्यादौ तु न आनङ् । ऋदन्त सर्वावयवकत्वाभावादिति भावः । तर्हि पितापुत्राविति कथमित्यत आह । पुत्रेऽन्य तरस्यामिति ॥ 'ऋतो विद्यायोनिसम्बन्धेभ्यः' इत्यत्र “विभाषा स्वसृपत्योः' इत्यत्र च मध्यऽसम्बन्धादाह । मण्डूकेति ॥ अनुवृत्तेरिति ॥ नच तातपुत्रावित्यत्रापि स्यादिति वाच्यम् । ऋदन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात् । देवताद्वन्द्वे च ॥ मित्रावरुणाविति । इह ऋदन्तत्वाभावात् पूर्वेणाप्राप्ते विधिरयम् । वायुशब्देति ॥ वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्रात् द्वन्द्वग्रहणे अनुवर्तमाने पुनः द्वन्द्वग्रहणं व्यर्थमित्यत आह । पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थमित्यर्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतत् ब्रह्मप्रजापतियुगळं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम् । “वेद एव सहनिर्वापनिर्दिष्टाः” इत्येव भाष्ये दर्शनात् । लोक

प्रसिद्धसाहचर्यग्रहणे तु पार्वतीपरमेश्वरावित्यादावतिप्रसङ्गाच । ईदग्नेः ॥ इत्येवेति ॥