८८२ । विभाषा श्यावारोकाभ्याम् । (५-४-१४४)
दन्तस्य * दतृ' स्याद्वहुव्रीहौ । श्यावदन्-श्यावदन्त । अरोकदन्-अरोकदन्तः।
८८३ । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । (५-४-१४५)
एभ्यो द्न्तस्य दत्तृ वा । कुड्मलाप्रदन्-कुड्मलाप्रदन्त ।
८८४ । ककुद्स्यावस्थायां लोपः । (५-४-१४६)
अजातककुत् । पूणककुत् ।
८८५ । त्रिककुत्पर्वते । (५-४-१४७)
त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञेषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ।
८८६ । उद्विभ्यां काकुद्स्य । (५-४-१४८)
लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ।
८८७ । पूर्णाद्विभाषा । (५-४-१४९)
पूर्णकाकुत्-पूर्णकाकुदः ।
समा दन्ता यस्या इति विग्रहः । “नासिकोदर' इति ङीष् । विभाषा श्यावारोकाभ्याम् । शेषपूरणेन सूत्रं व्याचष्टे । दन्तस्येति । श्यावदन्निति ॥ श्यावा धूम्रा दन्ताः यस्येति विग्रहः । “ श्यावस्यात् कपिशो धूम्र' इत्यमरः । अरोकदन्निति ॥ अरोका अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः । अग्रान्त ॥ अग्रः अग्रशब्दोऽन्तेऽवसाने यस्य सः अग्रान्तः इत्यभिप्रेत्योदाहरति । कुड्मलाग्रदन्निति । कुट्मलानां मुकुळानां अग्राणि तानीव दन्ता यस्येति विग्रहः । शुद्धदन्-शुद्धदन्तः । शुभ्रदन्-शुभ्रदन्तः । वृषदन्-घृषदन्तः । वराहदन्-वराह दन्तः । ककुदस्य ॥ अवस्थायां गम्यमानायां ककुदस्य लोपस्स्यात् बहुव्रीहावित्यर्थः । आहार कालादिकृतोवयवानामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम्। अजातककुदिति ॥ अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः। पूर्णककुदिति । पूर्ण ककुदमस्येति विग्रहः । युवेत्यर्थः । त्रिककुत् पर्वते । पर्वतविशेषे गम्ये इत्यर्थः । त्रिककु दिति कृताकारलोपो निपात्यते । त्रीणि ककुदानि श्रृङ्गाणीत्यर्थः । उद्विग्भ्यां काकुदस्य । लोप इति ॥ उद्विभ्यां परस्य काकुदस्य लोपस्यात् बहुव्रीहावित्यर्थः । उत्काकुर्दिति ॥ उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्दं व्याचष्टे । काकुदं ताल्विति ॥ पूर्णा द्विभाषा ॥ पूर्णात् परस्य काकुदस्य लोपो वा स्यादित्यर्थः । पूर्ण काकुदं यस्येति विग्रहः ।