पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५६७
बालमनोरमा

किम् । मध्यमभार्यः । * तद्धितस्य' किम् । काण्डलावभार्यः । “ वृद्धि' शब्देन किम् । तावद्भार्यः । रक्ते तु, काषायी कन्था यस्य स काषायकन्थः । विकारे तु, हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधाना भावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ।

मन्यते माधुरीमानिनी, 'मनः' इति णिनिः, उपधावृद्धिः । उपपदसमासः, सुब्लुक्, नान्त त्वात् ङीप् । इहोभयत्रापि “क्यङानिनोश्च' इति प्राप्तं पुंवत्वन्निषिध्द्यते । मध्यमभार्य इति ॥ मध्ये भवा मध्यमा, “मध्यान्म:’ इति म: । मध्यमा भार्या यस्येति विग्रहः । स्त्रियाः पुंवत् ' इति पुंवत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाभावान्नपुंवत्त्व निषेधः । काण्डलावभार्य इति ॥ काण्डं लुनातीति काण्डलावी, “कर्मण्यण्' इत्यण्प्रत्ययः कृत्, “अचो ञ्णिति' इति वृद्धिः, आवादेशः, उपपदसमासः, * टिड्ढाणञ्' इति ङीप् , काण्डलावी भार्या यस्येति विग्रहः, पुंवत्वात् ङीपो निवृत्तिः । अत्राणः कृत्वात्तद्धितत्वा भावात् न पुंवत्वनिषेधः । तावद्भार्य इति ॥ तत् परिमाणस्यास्तावती, “यत्तदेतेभ्य परिमाणे वतुप्' इति तच्छब्दाद्वतुप् तद्धितः,'आ सर्वनाम्नः’ इत्याकारः, उगित्वात् डीप्, तावती भार्या यस्येति विग्रहः । पुंवत्वात् डीपो निवृत्तिः, ‘आ सर्वनाम्नः इत्याकारात्मिकां वृद्धिं प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाभावात्तन्निमित्तवतुबन्तस्य न पुंवत्वनिषेधः । रक्ते त्विति ॥ रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्वामित्यर्थः । काषायीति । कषायो गिरिजोधातु विशेषः, तेन रक्ता काषायी 'तेन रक्तं रागात्' इत्यणि 'यस्येति च' इति लोपः । आदिवृद्धिः टिड्ढाणञ्’ इति डीप् । काषायकन्थ इति ॥ पुंवत्वे डीपो निवृत्तिः, अत्राणः तद्धितस्य रक्तार्थकत्वात् न पुंवत्वनिषेधः । विकारे त्विति ॥ विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वमित्यर्थः । हैमीति ॥ हेम्नो विकारभूतेत्यर्थः । “अनुदात्तादेश्च' इत्यञ्, टिलोपः आदिवृद्धिः, 'टिड्ढ' इति डीप्, हैमीति रूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्वे डीपो निवृत्तिः । अत्रा अस्तद्धितस्य विकारार्थकत्वान्न पुंवत्वनिषेधः । स्यादेतत् । व्याकरणमधीते वेति वा स्त्री वैयाकरणी, “तदधीते तद्वेद' इत्यण् तद्धितः । “यस्येति च' इत्यकारलोपः । अणो णित्वात् तन्निमित्तकयकाराकारस्य पर्जन्यवलक्षणप्रवृत्त्या प्राप्तायाः वृद्धेः ‘नय्वाभ्याम्’ इति निषेधः। यकारात् प्रागैकारागमश्च 'टिड्ढाणञ्' इति डीप् । वैयाकरणी भार्य यस्येति बहुव्रीहौ पुंवत्वे डीपो निवृत्तौ वैयाकरणभार्य इति रूपम् । तथा स्वश्वस्यापत्यं स्त्री ‘अत इञ्’ इति इञोऽपवादः शिवाद्यण् 'यस्येति च' इति लोपः । प्रथमवकारात् परस्य अकारस्यादिवृद्धेर्नय्वाभ्यामिति निषेधः । प्रथमवकारात् प्रागौकारागमश्च, 'टिड्ढ' इति ङीप् । सौवश्वी भार्या यस्येति बहुव्रीहौ पुंवत्वे डीपो निवृत्तौ सौवश्वभार्य इति रूपमिति स्थितिः । अत्रोभयत्रापि आदिवृद्धेः ‘नय्वाभ्याम् इति निषेधेऽपि अणः ताद्वितस्य णित्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्त्वनिषेधो दुर्वार इत्यत आह । वृद्धिं प्रति फलोपधानाभावादिह पुंवदिति ॥ प्रतीत्यनन्तरं निमित्ततद्धितस्येति शेषः । अणः वृद्धिनिमित्तस्य यत् फलं वृद्धिस्तेन उपधानं तात्कालिक