पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४६
[असाधारण
सिद्धान्तकौमुदीसहिता

जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ।

८१३ । पूर्ववद्श्वबडबौ । (२-४-२७)

द्विवचनमतन्त्रम् । अश्वबडबौ । अश्वबडबान् । अश्वबडबैः ।

८१४ । रात्राह्नाहाः पुंसि । (२-४-२९)

एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवलिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते। अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः ।

पूर्वाह्णः । व्द्यहः । “सङ्ख्या पूर्वं रात्रं क्लीबम्' (लेि १३१) । द्विरात्रम् । त्रि

रात्रम् । गणरात्रम् ।


आह । अत एवेति ॥ 'एकविभक्ति च' इति कुमारीशब्दस्योपसर्जनत्वाद्ध्रस्वः । गतिसमासमुदाहरति । निष्कौशाम्बिरिति ॥ अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति । यद्यपि निरादिसमास एवायम्, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तैः । तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः । पूर्ववदश्वबडबौ ॥ अश्वश्च बडबा व इति द्वन्द्वे परवल्लिङ्गम्बाधित्वा पूर्ववल्लिङ्गार्थमिदम् । अश्वबडबाविति द्वन्द्वः । पूर्वपदस्य लिङ्गं लभते इत्यर्थे बहुवचने विभक्तयन्तरे च न स्यादित्यत आह । द्विवचनमतन्त्रमिति ॥ उपलक्षणमिदम् । द्विवचनं, विभक्तिश्चेति, द्वयमपि अविवक्षितमित्यर्थः । पूर्ववद्ग्रहणमत्र लिङ्गम् । अन्यथा निपातनादेव सिद्धे किन्तेनेति भावः । रात्राह्नाहाः ॥ द्वन्द्वतत्पुरुषयोरित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशेष्यते, तदन्तविधिः । रात्राह्माहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः । फलितमाह । एतदन्ताविति ॥ परवल्लिङ्गतापवादः । ननु अहोरात्र इति समाहारद्वन्द्वे 'स नपुंसकम्' इति नपुंसकत्वप्रसङ्गः । नच नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यम् । 'पुरस्तादपवादाः अनन्तरान्विर्धान् बाधन्ते नोत्तरान्” इति न्यायेन अस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इतरेतरद्वन्द्व एव इहोदाहर्तुमुचित इत्यत आह । अनन्तरत्वादिति ॥ अयमिति ॥ पुंस्त्वविधिरिति शेषः । अहोरात्र इति ॥ अहश्च रात्रिश्च तयोस्समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम्, अपवादत्वात् परवल्लिङ्गमपि बाधित्वा अनेन पुंस्त्वम् । “अहस्सर्वेकदेश' इत्यच् । पूर्वाह्ण इति ॥ अहxपूर्वमित्येकदेशिसमासः । 'राजाहःसखिभ्यः' इति टच । “अह्नोऽह्नः' इत्यह्नादेशः । परवल्लिङ्गं नपुंसकश्च बाधित्वा पुंस्त्वम् । द्वयह इति ॥ द्वयोरह्नोस्समाहारः इति विग्रहे द्विगुः टच्, 'न सङ्ख्यादेस्समाहारे' इत्यह्मादेशनिषेधः । परवल्लिङ्गं बाधित्वा पुंस्त्वम् । उत्तरपदस्याहन्शब्दस्य अकारान्तत्वाभावान्न स्त्रीत्वम् । समासान्तस्य समासभक्तत्वात् । सङ्ख्यापूर्वं ॥ लिङ्गानुशासनसूत्रमिदम् । नत्वष्टाध्द्यायीस्थं सूत्रम्, नापि वार्तिकम्' भाष्ये अदर्शनात् । 'रात्राह्नाहाः पुंसि' इत्यस्यायमपवादः । द्विरात्रमिति ॥ समाहारद्विगुः । 'अहस्सर्वैकदेश' इत्यचू ।