पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३४
[असाधारण
सिद्धान्तकौमुदीसहिता

७८६ । तत्पुरुषस्याङ्गुलेः सङ्खयाव्ययादेः । (५-४-८६)

संख्याव्ययादेरङ्गुल्यन्तस्य त्पुरुषस्य समासान्तोऽच स्यात् । द्वे अङ्गु ली प्रमाणमस्य ह्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ।

७८७ । अहःसर्वैकदेशसंख्यातपुण्याञ्च रात्रेः । (५-४-८७)

एभ्यो रात्रेरच्स्याञ्चात्संख्याव्ययादेः । ‘अहर्ग्रहणं द्वन्द्वार्थम्’ (वा ३३५३) अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयो रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ।


कृञः त्त्काणमुलौ' इति सूत्रेणेत्यर्थः । अलं कृत्वेति ॥ ' अलङ्खल्वोः प्रतिषेधयोः प्राचां त्त्का' इत्येतत् “उपदंशस्तृतीयायाम्' इत्यतः पूर्वमेव पठितम् । अतः तद्विहितत्त्कः मान्तेन सह समासाभावात् न ल्यबिति भावः । इत्युपपदसमासाः । अथ तत्पुरुषेषु असाधारणसमासान्तान्वक्तुमुपक्रमते । तत्पुरुषस्यांगुलेः सङ्खयाव्ययादेः ॥ “अच्प्रत्यन्ववपूर्वात्' इत्यतः अजित्यनुवर्तते, समासान्त इत्यधिकृतम् । तेन संमांसस्य अन्तावयव इति लभ्यते । 'प्रत्ययः परश्च' इत्यधिकारात् अच्प्रत्ययस्य तत्पुरुषात् परत्वेऽपि तस्य तदवयवत्वात् अङ्गुलेरिति अवयवषष्ठी अङ्गुलेरिति तत्पुरुषविशेषणं, तदन्तविधिः । तदाह । सङ्खयाव्ययादेरिति ॥ सङ्ख्या च अव्ययञ्च सङ्खयाव्यये ते आदी यस्येति विग्रहः । ह्यङ्गुलमिति ॥ “तद्धितार्थ इति द्विगु । “ प्रमाणे द्वयसज्दघ्नञ्मात्रचः ' प्रमाणे लः, द्विगोर्नित्यम्' इति लुक् । ह्यङ्गुळीशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे 'यस्येति च' इति ईकारलोपः । निरङ्गुलमिति ॥ 'निरादयः क्रान्ताद्यर्थ' इति समासः, अच् 'यस्येति' लोपः । अहस्सर्वेकदेशसङ्खयातपुण्याञ्च ॥ एभ्यो रात्रेरिति ॥ अहन्, सर्व, एकदेश, सङ्खयात, पुण्य, एभ्यः परस्य रात्रिशब्दस्स्येत्यर्थः । अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादिः रात्र्यन्तस्तत्पुरुषो नास्त्येव । अह्नो रात्रिरिति वा, अहश्चासौ रात्रिश्चेति वा, अस म्भवात् इत्यत आह । अहग्रहणं द्वन्द्वार्थमिति ॥ नच ब्रह्मणो यदहः तस्यावयxभूता या मानुषी रात्रिरिति षष्ठीतत्पुरुषः सम्भवतीति वाच्यम् । अहग्रहणं द्वन्द्वार्थमिति भाष्यप्रामाण्येन एवञ्जातीयकतत्पुरुषस्य प्रयोगाभावोन्नयनात्। अहोरात्र इति ॥ द्वन्द्वादच् ‘इलोपः, ‘जाति रप्राणिनाम्' इत्येकवत्वम् । 'स नपुंसकम्' इति बाधित्वा “रात्राह्वाहाः पुंसि' इति पुंस्त्वम्। सर्वा रात्रिस्सर्वरात्र इति ॥ सर्वा रात्रिरिति विग्रह 'पूर्वकालैक' इति कर्मधारयः । अच्, इकारलोपः, “रात्राह' इति पुंस्त्वम् । “सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वम् । एकदेशेत्यर्थप्रहणमित्यभिप्रेत्योदाहरति । पूर्वमिति ॥ पूर्व रात्रेरिति विग्रहे 'पूर्वापराधरोत्तरम् इत्येकदेशिसमासः । अच्, इलोपः, “रात्राह्न' इति पुंस्त्वम् । सङ्खयातरात्र इति ॥ सङ्ख्याता रात्रिरिति विग्रहे कर्मधारयः।' पुंवत्कर्मधारय' इति पुंवत्वम् । पुण्यरात्र इति ॥ पुण्या रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय' इति पुंवत्त्वम्। अच, इलोपः । ‘रात्राह्न'