पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४८
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०२६ । अर्थे विभाषा । (६-३-१००)

अन्यदर्थः । अन्यार्थः ।

१०२७ । कोः कत्तत्पुरुषेऽचि । (६-३-१०१)

अजादावुत्तरपदे । कुत्सितोऽश्वः । कदश्वः । कदन्नम् । “तत्पुरुषे ' । किम् । कूष्ट्रो राजा । “त्रौ च' (वा ३९९८) । कुत्सितास्रयः कत्रयः ।

१०२८ । रथवद्योश्च । (६-३-१०२)

कद्रथ: । कद्वद: ।

१०२९ । तृणे च जातौ । (६-३-१०३)

कत्तृणम् ।

१०३० । का पथ्यक्षयोः । (६-३-१०४)

कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः, अक्षिशब्देन बहुव्रीहिर्वा ।

१०३१ । ईषदर्थे । (६-३-१०५)

ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ।


अर्थे विभाषा । अन्यस्य दुगिति शेषः । कोः कत्तत्पुरुषेऽचि ॥ कत् इति च्छेदः ।

  • शेषपूरणेन' सूत्रं व्याचष्टे । अजादावुत्तरपदे इत । कदश्वः-कदन्नमिति ।

कुगति' इति समासः । कूष्ट्रो राजेति । कुत्सितः उष्ट्रो यस्येति बहुव्रीहित्वात् न कदादेशः। त्रौ चेति । त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थ । उत्तरपदस्याजादित्वाभावात् वचनम् । रथवदयोश्च ।। “कोः कत्तत्पुरुषे' इति शेषः । कद्रथ इति ॥ “कुगति' इति समासः । वदतीति वदः कद्वदः । तृणे च जातौ ॥ तृणशब्दे कोः कत्स्यात् जातौ वाच्यायाम् । कत्तृणमिति । तृणजातिविशेषोऽयम् । “अस्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् ” इत्यमरः । का पथ्यक्षयोः ॥ पथिन्, अक्ष, अनयोः परतः कोः का इत्यादेशः स्यादित्यर्थः । कापथमिति । कुत्सितः पन्था इति विग्रहः । “कुगति' इति समासः । “ऋक्पूः' इत्यप्र त्ययः । 'पथस्सङ्खयाव्ययादेः' इति नपुंसकत्वम् । कापथ इति पाठे तु बहुव्रीहिः । काक्षशब्दे समासन्दर्शयति । अक्षशब्देन तत्पुरुष इति ॥ कुत्सितमक्षमिन्द्रियामिति विग्रहे 'कुगति इति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति विग्रहे 'बहुव्रीहौ सक्थ्य क्ष्णोः ' इत्यजित्यर्थः । ईषदर्थे ॥ ईषदर्थे विद्यमानस्य कोः का इत्यादेशः स्यादित्यर्थः । ईषज्जलं काजलमिति ॥ ईषत् जलमिति विग्रहे 'कुगति' इति समासः । नित्यसमासत्वात् अस्वपदविग्रहप्रदर्शनम् । कुत्सितः आम्लः काम्लः इत्यत्र 'कोः कत्तत्पुरुषेऽचि' इति