पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६४१
बालमनोरमा

कारीषगन्धीमातृकः-कारीषगन्ध्यामातृकः । कारीषगन्धीमाता-कारीषगन्ध्या माता । अत एव निपातनान्मातृशब्दस्य मातजादेशः । ‘नद्युतश्च' (सू ८३३) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह । कारीषगन्ध्याया माता कारी षगन्ध्यामाता । चित्त्वसामर्थ्याचित्स्वरो बहुव्रीहिस्वरं बाधते ।

१०६ । इष्टकेषीकामालानां चिततूलभारिषु । (६-३-६५)

इष्टकादीनां तदन्तानां च पूर्वेपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम्, इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारी । उत्पलमालभारी ।

१००७ । कारे सत्यागदस्य । (६-३-७०)

मुम्स्यात् । सत्यङ्कारः । अगदङ्कारः । * अस्तोश्चेति वक्तव्यम्’ (वा ३९७३) । अस्तुङ्कारः । “धेनोर्भव्यायाम्' (३९७५) । धेनुम्भव्या ।


मातजादेशः, अदन्तमेतत् । मातृके उदाहरति । कारीषगन्धीमातृकः । कारीष गन्ध्यामातृक इति ॥ 'नद्युतश्च' इति कप् । मातृशब्दे उदाहरति । कारीषगन्धी माता । कारीषगन्ध्यामातेति ॥ शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं, “नद्युतश्च' इति नित्यविधानात् पाक्षिककप् च दुर्लभ इत्याह । अत एवेति ॥ बहुव्रीहावेवेदमिति ॥ “बन्धुनि बहुव्रीहौ' इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः । मातजिति चित्करणं स्वरार्थमित्याह । चित्वसामर्थ्यादितीति ॥ इष्टकेषीका ॥ उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदमिति इष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यप देशिवद्भावात् तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात्् “पदाङ्गा धिकारे तस्य तदन्तस्य च’ इति वचनेन वा तेषां ग्रहणमिति भावः । 'इको , ह्रस्वः’ इत्यतः ह्रस्वः इत्यनुवर्तते । तदाह । इष्टकादीनां तदन्तानाञ्चेति ॥ इष्टकचितमिति ॥ इष्टकादिभिश्चितमिति विग्रहः । “कर्तृकरणे कृता' इति समासः । तदन्तविधिः । प्रयोजनमाह । पक्वेञ्ष्टकचितमिति ॥ इषीकतूलमिति ॥ इषीकायास्तूलमिति विग्रहः । तूलमग्रं शष्पमित्यन्ये । मुञ्जेषीकतूलमिति ॥ मुञ्जेषीकायास्तूलमिति विग्रहः । मालभारीति ॥ सुप्यजातौ' इति णिनिः । हारिष्विति पाठान्तरम् । कारे सत्यागदस्य ॥ शेषपूरणेन सूत्रं व्याचष्टे । मुम्स्यादिति ॥ 'अरुर्द्विषत्' इत्यतस्तदनुवृत्तेरिति भावः । सत्यस्य अगदस्य च कारे परे मुम् स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्वादन्यादचः परः । सत्यङ्कार इति ॥ भावे घञ् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगद ङ्कार इति । गदो रोगः तस्याभावः अगदः । अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः । अगदस्य कार इत्यर्थः । अस्तोश्चेति ॥ कारे मुमिति शेषः । अस्तुङ्कार 81