पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३०
[अलुक्स्मास
सिद्धान्तकौमुदीसहिता

९७४ । विभाषा वर्षक्षरशरवरात् । (६-३-१६)

एभ्यः सप्तम्या अलुग्जे । वर्षेज:-वर्षेजः। क्षरेजः-क्षरजः। शरेजः- शरजः। वरेजः-वरजः।

९७५ । घकालतनेषु कालनाम्नः । (६-३-१७)

सप्तम्याः विभाषया लुक्स्यात् । घ । पूर्वाह्णेतरे–पूर्वाह्णतरे । पूर्वा ह्णेतमे-पूर्वाह्णतमे । काल । पूर्वाह्णेकाले-पूर्वाह्णकाले । तन । पूर्वाह्णेतने-पूर्वाह्णतने।

९७६ । शयवासवासिष्वकालात् । (६-३-१८)

खेशय:-खशयः । ग्रामेवासः–ग्रामवासः । ग्रामेवासी-ग्रामवासी ।

  • हलदन्तात्' इत्येव । भूमिशयः । “अपां योनियन्मतुषु' (वा ३८७६) ।

अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावा ज्यभागौ ।

९७७ । नेन्सिद्वबन्धादिषु च । (६-३-१९)

इन्नन्तादिषु सप्तम्या अलुग्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबन्धः ।


इत्यर्थः । विभाषा वर्ष ॥ शेषपूरणेन सूत्रं व्याचष्टे । एभ्यस्सप्तम्या इति ॥ घकाल तनेषु ॥ शेषपूरणेन सूत्रं व्याचष्टे । सप्तम्या इति ॥ घेति ॥ घे परे उदाहरणसूचनमिदम् । तरप्तमपौ घः । पूर्वाह्णेतरे इति ॥ अतिशायने सप्तम्यन्तात् तरप्तमपौ । अतएव तत्त द्विभक्तयन्तात् तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्णेकाले इति ॥ अत एव विशेषणादिसमासोऽपि तत्तद्विभक्तयन्तानामेव । तेनेति ॥ उदाहरणसूचन मिदम् । पूर्वाह्णेतने इति ॥ * विभाषा पूर्वाह्वापराह्णाभ्याम्' इति टयुटयुलौ तुट् च । शय वास ॥ शय वास वासिन् एतेषु परेषु कालभिन्नात् सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि ॥ योनिशब्दे यत्प्रत्यये मतुबि च परेऽप्शब्दात् सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति ॥ दिगादित्वाद्यत् । “ओर्गुणः' 'वान्तो येि' इत्यवादेशः । अप्सुमन्ताविति । अप्सु इति पदं यदीयमन्त्रयोरास्ति तावप्सुमन्तौ । आज्यभागाविति कर्मविशेषौ । नेन्सिद्वबन्धा दिषु च ॥ चक्रबन्ध इति ॥ साधनं कृता इति त्क्तान्तेन सप्तम्यन्तस्य समासः । स्थे १.अयं पाठो हरदत्तानुसारेण । 'मतिषु' इति युक्तः पाठः । 'एकवच्च' इत्यस्यातिप्रसङ्ग अन्य व्याजेनाप्सुजाप्सुचरादिवदस्य (अप्सुमतिः) भाष्ये उपन्यासात् । नहि 'अप्सुमन्तौ' इत्यन्न तस्य प्रसङ्गोऽस्ति । शब्दपरतया तस्यैकत्वमात्रार्थत्वात् । किञ्च “मतुषु' इति पाठे फलं चिन्त्यम् । “अस्यवामीयम्' इत्यादाविव लुकोऽप्राप्तेः । इति-शेखरः ।