पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१२
[
सिद्धान्तकौमुदीसहिता

९६६ । हलदन्तात्सप्तम्याः संज्ञायाम् । (६-३-९)

हलन्ताददन्ताच सप्तम्या अलुक्संज्ञायाम् । त्वचिसारः ।

९६७ । गवियुधिभ्यां स्थिरः । (८-३-९५)

आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचना देवालुक् । युधिष्ठिरः । अरण्येतिलकः । अत्र 'संज्ञायाम्' (सू ७२१) इति सप्तमीसमास । “हृदयुभ्यां च' (वा ३८८५) । हृदिस्पृक् । दिविस्पृक् ।

९६८ । कारनाम्नि च प्राचां हलादौ । (६-३-१०)


प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव प्राचामेव हलादावेवेति । *कारनाम्नि' किम् । अभ्याहितपशुः । कारादन्यस्यै तद्देशस्य नाम । “प्राचांम्’ किम् । यूथपशुः । “हलादौ' किम् । अविकटो रणः । * हलदन्तात्' किम् । नद्यां दोहो नदीदोहः । अलुगित्यर्थः । हलदन्तात् ॥ त्वचिसार इति ॥ अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । “वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः' इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति । युधिष्ठिर इत्यत्र “अजिरशिशिरस्थिर' इत्युणादिसूत्रेण स्थाधातोः किरचि स्थिर शब्दो व्युत्पादितः । तत्र “आदेशप्रत्यययोः' इति षत्वस्य “सात्पदाद्योः' इति निषेधे प्राप्ते इदमारभ्यते । गवियुधिभ्यां स्थिरः । गवीति युधीति च सप्तम्या अनुकरणम् । स्थिर इति प्रथमा षष्ठयर्थे । “सहेस्साडस्सः' इत्यस्मात् स इति षष्ठयन्तमनुवर्तते । “ अपदान्तस्य मूर्धन्यः' इत्याधिकृतम् । तदाह । आभ्यामिति ॥ ननु “ अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते” इति परिभाषया अवादेशात् पूर्वमेव ङेर्लुकि प्रवृत्ते हलन्तत्वाभावात् कथमिहालुगि त्यत आह । अत्र गवीति । युधिष्ठिर इति ॥ युध्धातोर्भावे क्विपि युध्शब्दात् सप्तम्येक वचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रपञ्च्य अदन्तादलुकमुदाहरति । अरण्येतिलक इति । ननु तिलकशब्दस्य शौण्डादिगणे ऽभावात् कथ तेन सप्तमीसमास इत्यत आह । अत्र संज्ञायामिति ॥ हृद्द्युभ्यां चेति ॥ हृच्छब्दात् दिव्शब्दाच्च सप्तम्या अलुग्वक्तव्यमित्यर्थः । असंज्ञार्थमिदम् । हृदिस्पृगिति ॥ पद्दन्' इति डौ हृदयस्य हृदादेशः । हृदयं स्पृशतीत्यर्थः । दिविस्पृगिति ॥ दिवं स्पृशती त्यर्थः । इहोभयत्रापि सप्तम्या अलुग्विधानबलादेव कर्मणि सप्तमीति भाष्यम्। “ अमूर्धमस्तकात् इत्यनेन त्वलुक् न सिध्यति । तत्र संज्ञायामित्यनुवृत्तेः । कारनाम्नि ॥ यत् कारनामेति ॥ राजग्राह्यो भागः करः, स एव कारः, ताद्विशेषवाचक इत्यर्थः । प्राचां देशनाम्नि चेत् कारनाम्न्येवेति नियमार्थमित्यर्थ । अविकटोरण इति । अविशब्दात् सङ्घाते कटच् ।