पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथालुक्समासप्रकरणम् ॥

९५८ । अलुगुत्तरपदे । (६-३-१)

अलुगधिकारः प्रागानङः, उत्तरपदाधिकारस्त्वापादसमाप्तेः ।

९५९ । पञ्चम्याः स्तोकादिभ्यः । (६-३-२)

एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थ दूरार्थकृच्छ्रेभ्यः । “उत्तरपदे' किम् । निष्क्रान्तः स्तोकान्निस्तोकः । 'ब्राह्मणा च्छंसिन उपसंख्यानम्’ (वा ३८७८) । ब्राह्मणे विहितानि शस्राण्युपचारा


अथालुक्समासो निरूप्यते-अलुगुत्तरपदे ॥ नायं विधिः । राजपुरुषः इत्यादा वतिप्रसङ्गात्, “पञ्चम्याः स्तोकादिभ्यः' इत्याद्यारम्भाच्च । किन्तु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तामित्यनुवृत्तिः इत्यत आह । अलुगधिकारः प्रागानङ इति ॥ 'आनदृतः ३त्यतः प्रागित्यर्थः । उत्तरपदेति ॥ षष्ठस्य तृतीये पादे आद्यमिदं सूत्रम् । इत उत्तरमेत त्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोत्तरपदाधिकारनियमे भाष्यमेव प्रमाणम् । पञ्चम्याः स्तोकादिभ्य. ॥ एभ्य इति ॥ स्तेोकादिभ्यः परा या पञ्चमी तस्याः 'सुपो धातु' इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति ॥ उत्तरपदशब्दः समासचरमावयवे रूढः । पदे इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति ॥ एवमल्पान्मुक्तः । “स्तोकान्तिक दूरार्थकृच्छाणि तेन' इति समासः । अत्र पञ्चम्या अलुक् । एवमिति ॥ आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः। निस्स्तोक इति ॥ 'निरादयः क्रान्ताद्यर्थे पञ्चम्या इति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाभावात् पञ्चम्या अलुक् न स्यात् । स्तोका न्मुक्तः इत्यादौ समासप्रयोजनन्तु समासस्वरः, सर्वस्मात् स्तोकान्मुक्त इति विशेषणयोगा भावश्च । किञ्च स्तोकान्मुक्तस्यापत्यं स्तोकान्मुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोका न्मुक्तौ, स्तोकान्मुक्ताः इति द्विबहुवचनान्तैः न समासः । अनभिधानात्, इति भाष्ये स्पष्टम् । ब्राह्मणाच्छंसिन उपसङ्खयानमिति ॥ पञ्चम्या अलुगिति शेषः । ननु ब्राह्मणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि ब्राह्मणशब्देनोच्यन्ते । “कर्मचोदना ब्राह्मणानि इति कल्पसूत्रात् । “शेष ब्राह्मणशब्दः” इति मन्त्रभिन्नवेदभागे ब्राह्मणशब्दस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राह्मणभागस्य न कापि शंसनं विहितम् । “ऋचश्शंसति निवि दश्शंसति” इति श्रुतिष्वित्यत आह । ब्राह्मणे इति ॥ शास्राणीति ॥ ऋचां निविदाश्च 9