पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४१७
बालमनोरमा ।

वीप्सायाम्, वृक्षं वृक्षं प्रति-परि-अनु वा, सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । “एषु' किम् । परिषिञ्चति ।

५५३ । अभिरभागे । (१-४-९१)

भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरि मभि । देवं देवमभि सिञ्चति । ‘अभागे' किम् । यद्दत्र ममाभिष्यात्तद्दीयताम् ।

५५४ । अधिपरी अनर्थकौ । (१-४-९३)


यावत् । वीप्सायामिति । उदाहरणं वक्ष्यत इति शेषः । वृक्षे वृक्षं प्रतीति । ‘नित्य वीप्सयोः' इति द्विर्वचनम् । अत्र सन्वाच्या इच्छास्वरूपा सती व्याप्तिरेव तु विवक्षिता, सा च कार्त्स्न्येन सम्बन्धात्मिका । तथाच प्रकृत्यर्थगतकार्त्स्न्यमेव व्याप्तिः, सा यद्यपि द्विर्वचनद्योत्या तथापि प्रतिपर्यनुयोगे तद्दयोत्यत्वमपि । तथाच कृत्त्स्नं वृक्षं सिञ्चतीत्यर्थः । व्यक्तिकात्स्रर्यमिह विवक्षितम्, नत्ववयवकात्स्रर्यमिति “नित्यवीप्सयोः' इत्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्यं कर्मत्वादेव द्वितीयासिद्धेः किमिह कर्मप्रवचनीयसंज्ञयेत्यत आह । अत्रेति गत्युपसर्गसंज्ञा पवादः कर्मप्रवचनीयसंज्ञेत्युक्तम्, अतोऽत्र प्रतेः कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् उपसर्गात् सुनोति' इति षत्वन्न भवति । कर्मप्रवचनीयत्वाभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेस्सस्य षत्वं स्यादित्यर्थः । भाष्ये तु “किमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्द्यति उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाभावेन तदप्रसक्त्तेरित्याक्षिप्य द्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधानम्’ इत्युक्तम् । “वृक्षस्य सेचने कर्मत्वेऽपि तदविवक्षायां सम्बन्धविवक्षायां षष्ठीं बाधितुमिदं कर्मप्रवचनीयत्वविधानम् । किञ्च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रति द्योत्यसम्बन्धे अन्वयेन अन्तरङ्गत्वात्तन्निमित्तषष्ठीबाधनार्थमिदम् । वृक्षं वृक्षं प्रति पक्षिण आसते इत्यादौ अकर्मकधातुयोगे अधिकरणादिसंज्ञानिरासार्थञ्चेदमिति भाष्याशयः” इति शब्दे न्दुशेखरेमञ्जूषायाश्च स्पष्टम् । एषु किमिति ॥ ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु’ इति किमर्थ मित्यर्थः । परिषिञ्चतीति ॥ अग्निमित्यादि शेषः । अत्र लक्षणाद्यभावात् कर्मप्रवचनीयत्वाभावे ‘उपसर्गात्सुनोति’ इति षत्वमिति भावः । अभिरभागे ॥ लक्षणादाविति ॥ आदिना इत्थंभूता ख्यानवीप्सयोस्सङ्गहः। लक्षणे उदाहरति । हरिमभिवर्तत इति । जयः क्वेति प्रश्रे इदमुत्तरम् । लक्ष्यभावः अभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति ॥ इत्थम्भूता ख्याने उदाहरणमिदम् । विषयतासम्बन्धः अभिद्योत्यो द्वितीयार्थः। हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति । देवं देवमभि सिञ्चतीति ॥ कार्त्स्न्यसम्बन्धात्मिका व्याप्ति र्द्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्चतीत्यर्थः । षत्वाभावादि पूर्ववत् । यदत्रेति ॥ बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वामिभावः षष्ठयर्थः । अभिस्तद्दयो तकः । अत्र संसृष्टद्रव्ये यत् वस्तु मम स्वभूतं स्यात्, तत् मह्यं दीयतामित्यर्थः । स्यादित्य स्तेर्लिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासाभावे उपसर्गत्वस्य निर्वाधत्वात् 'उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' इति षत्वम् । अधिपरी अनर्थकौ ॥