पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४१५
बालमनोरमा ।

वर्षणमित्यर्थः । परापि हेतौ तृतीया अनेन बाध्यते । “लक्षणेत्थम्भूत –’ (सू ५५२) इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ।

५४९ । तृतीयार्थे । (१-४-८५)

अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् ।नदीमन्ववसिता सेना । नद्या सह सम्बद्धेत्यर्थः । “षिञ् बन्धने क्तः ।

५५० । हीने । (१-४-८६)

हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ।


पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्वञ्चेति द्वयं तृतीयार्थः, तदु भयमनुना द्योत्यते । लक्षणत्वञ्च ज्ञानजनकज्ञानविषयत्वम्, जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिर्ज्ञाप्यते । ततश्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह । हेतु भूतेति । अनभिहिताधिकारान्न पर्जन्यात् द्वितीया । तस्य तिङा अभिहितत्वात् । ननु हेतुत्वांशस्य कथमिह लाभः, “ अनुर्लक्षणे' इत्यत्र तदनुपादानात् । एवञ्च हेतुत्वाविवक्षायां वृक्षमनु विद्योतते विद्युदित्यत्र * अनुर्लक्षणे' इति सावकाशम् । “हेतौ' इति तृतीया तु धनेन कुलमित्यादौ सावकाशा । पर्जन्यो जपमनु प्रावर्षदित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वात् हेतुतृतीयैव स्यादित्यत आह । परापीति । “ अनुर्लक्षणे' इति कर्म प्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनस्संज्ञेति ॥ वृक्षमनु विद्योतते विद्युत् इत्यत्र हेि “अनुर्लक्षणे ’ इत्यस्य न प्रयोजनम् । “लक्षणेत्थम्' इत्येव सिद्धेः । ततश्च “ अनुर्लक्षणे इत्यारम्भसामर्थ्यात् हेतुभूते लक्षणे अनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौ तृतीया बाध्द्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति । तृतीयार्थे ॥ अनुरित्यनुवर्तते । कर्मप्रवचनीयाः इत्यधिकृतम् । अस्मिन् द्योत्ये इति ॥ सहयुक्तेऽप्रधाने' इति तृतीया । साहित्ये द्योत्ये इत्यर्थः । अत्र 'तृतीयार्थे' इत्यनेन कर्तृ करणे न गृह्यते । रामेण शरेणानुहतो वालीत्यत्र “उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्यास्संज्ञायाः फलाभावात्, नापि “येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः, “ अनन्तरस्य’ इति न्यायेन “कर्मप्रवचनीययुक्ते द्वितीया' इत्यस्य सहयुतेऽप्रधाने' इत्यस्यैव बाधकत्वात् । तदाह । नद्या सह सम्बद्धेति ।। साहित्यं द्वितीयार्थः, अनुस्तद्दयोतक इति भावः । ननु अवसितशब्दस्य अवपूर्वात् * षो अन्तकर्मणि इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह । षिञ् बन्धनेन क्तः इति । उपसर्गबलेन सम्बन्धवृत्तेरस्मात् त्क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनःपुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा यं कमण्डलुना भवान् अद्राक्षीत्, स छात्र इति । सकृदेव हि दृष्टः, तस्य कमण्डलुर्लक्षणमिति “ अनुर्लक्षणे ' इत्यत्र भाष्ये स्पष्टम् । तेन व्याप्यत्वात्मकलिङ्गमेवात्र लक्षणमिति न भ्रमितव्यम् । हीने ॥ हीने द्योत्ये इति ॥