पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५४० । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ । (१-४-५२ )

गत्याद्यथनां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।

ं शत्रूनगमयत्स्वर्गं वेदार्थ स्वानवेदयत् ।

आशयच्चामृतं देवान्वेदमध्यापयाद्विधिम् ॥


जनपदविशेषेषु स्वभावान्नित्यबहुवचनान्ताः । मासमास्ते इति ॥ मासस्याधिकरणसंज्ञां बाधित्वा कर्मत्वम् । गोदोहमिति ॥ दोहनन्दोहः । भावे घञ् । भावो धात्वर्थः । गोदोहन कालोऽत्र विवक्षितः । नचेह कालत्वादेव सिद्धिश्शङ्कया । अहोरात्रसमूहस्य मासादेरेव तत्र ग्रहणात् । गन्तव्यत्वेनाध्वनो विशेषितत्वात् नियतपरिमाणः क्रोशादिरेव गृह्यत इत्यभिप्रेत्योदा हरति । क्रोशमास्ते इति ॥ गन्तव्यत्वविशेषणादध्वन्यास्ते इत्यत्र न भवति । अनत्यन्त संयोगार्थमिदं वार्तिकम् । अत्यन्तसंयोगे तु “कालाध्वनोरत्यन्तसंयोगे' इत्येव सिद्धमिति प्राची नानुसारी पन्थाः । वस्तुततु “ अकर्मकधातुभिर्योगे' इत्यादिवचनं भाष्ये न दृश्यते । किन्तु अकर्मकधातूनां कथं द्विकर्मकत्वमित्याशङ्कायां “कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । देशश्च' इत्युक्तम् । हिशब्दघटितत्वादिदं न विधायकम्, किन्तु अनुवादकमेव । तथाहि 'कुरून् स्वपिति' इत्यादौ स्वापादिक्रियया कुर्वादीन् व्याप्नोतीत्यर्थः । धातूनामनेकार्थतया कदाचित् तेषां स्वापादिकरणकव्यापनेऽपि वृत्तेः । ततश्च “कर्तुरीप्सिततमम्' इत्येव सिद्धम् । यदा तु स्वपादिधातूनां स्वापादावेव वृत्तिः, नतु व्याप्तिपर्यन्ते, तदा कुरुषु स्वपिति, मासे आस्ते इत्यधिकरणत्वमेव । एतच्च “अकथितश्च ' इत्यत्र 'कालाध्वनोरत्यन्तसंयोगे' इत्यत्र च भाष्ये स्पष्टम् । अत एव “समां समां विजायते' इति सूत्रे समायां समायां विजायते इति विग्रह कथनं भाष्ये सङ्गच्छते । अन्यथा द्वितीयाप्रसङ्गात् । अत एव च लकारार्थप्रक्रियायाम् “ अत्य न्तापह्नवे लिड़क्तव्यः' इत्यत्र 'कळिङ्गेष्वात्सीः' 'नाहं कळिङ्गान् जगाम' इति मूलकृदुदाहृते वाक्ये कळिङ्गेष्विति सप्तमी सङ्गच्छते। उक्त्तश्च हरिणा कालभावाष्वदेशानामन्तर्भूत क्रियान्तरैः । सवैरकर्मकैर्येोगे कर्मत्वमुपजायते' इति शब्देन्दुशेखरे प्रपञ्चितम् । गतिबुद्धि ॥ गतिश्च बुद्धिश्च प्रल्यवसानञ्च तानीति द्वन्द्वः । प्रत्यवसानं भक्षणम् । गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषान्ते शब्दकर्माणः, तेषामिति बहुव्रीहिः । अविद्यमानं कर्म येषान्ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्द कर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः । अणौ कर्ता अणिकर्ता यच्छब्दोऽद्याहार्यः । तदाह । गत्याद्यर्थानामित्यादिना ॥ णौ अनुत्पन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता सः ण्यन्तधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकस्यादित्यर्थः । क्रमेणोदाहरति । शत्रूनिति ॥ “शत्रूनगमयत् स्वर्गम्’ इति गत्यर्थकस्योदाहरणम् । शत्रवः युद्धे मृताः स्वर्ग मगच्छन्, तान् यश्शस्रघातेनागमयत् स्वर्गे, स श्रीहरिर्मे गतिरित्यत्रान्वयः । अत्र गमेरण्य