पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३९५
बालमनोरमा

बैदी । “जातेः' इत्यनुवृत्तेः पुंयोगे डीषेव “नृनरयोर्वृद्धिश्च' (ग ५४) इति गणसूत्रम् । नारी ।

५२८ । यङश्चाप् ।। ४-१-७४)

यङन्तात्स्रियां चाप्स्यात् । व्यङ्ष्यङोः सामान्यप्रहणम् । आम्बष्ठया । कारीषगन्ध्या । “ षाद्यञश्चाब्वाच्य:'(वा २५०५) । शार्कराक्ष्या। पौतिमाष्या।


चकारात् डीन् । नारीति । नृनरशब्दयोरुदाहरणम् । तत्र नृशब्दात् “ऋन्नेभ्यः' इति डीपि प्राप्से डीन्, ऋकारस्य वृद्धिः, रपरत्वम् । जातिलक्षणडीषस्तु नृशब्दान्न प्रसक्तिः, तत्र अत इत्यनु वृत्तेः । नरशब्दात्तु डीनि नकारादकारस्य वृद्धिः । ननु परमपि 'यस्येति च' इति लोपं बाधित्वा अन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादकारस्य वृद्धिस्यात् । न च कृतायामपि वृद्वो “यस्येति च' इत्यकारलोपस्स्यादिति वाच्यम् । वृद्धिविधिसामर्थ्यादेव तस्य लोपाभावसिद्धेरिति चेदुच्यते । नृनरयोरित्यत्र नर इति रेफान्तस्य लुप्ताकारस्यानुकरणम् । नरः अः नरः, ना च नरश्च नृनरौ, तयोरिति विग्रहः । नचैवमपि वानरीशब्दे अतिप्रसङ्ग इति वाच्यम् । अर्थवत एव ग्रहणात् । न च नृशब्दात् डीनि वृद्धौ नारीति सिद्धेर्नरग्रहणं व्यर्थमिति वाच्यम् । नरत्व जातिवाचिनः नरशब्दात् स्त्रियां जातिलक्षणडीषि नरीति व्यावृत्त्यर्थत्वात् । वस्तुतस्तु *नृनर योर्वृद्धिश्च' इति गणसूत्रं नारब्धव्यमेव । 'तदस्य धर्म्यम्' इत्यनुवृत्तौ *ऋतोऽञ्' इति सूत्रेण

  • नरस्य चेति वक्तव्यम्’ इति वार्तिकेन च नुर्धर्म्या नरस्य धर्म्येत्यर्थे नृशब्दान्नरशब्दाच्च अञि

ततः 'टिड्ढाणञ्’ इति डीपि नारीति सिद्धेः । “ञ्नित्यादिर्नित्यम्' इति प्रकृतेराद्युदात्तत्वे डीपः पित्वादनुदात्तत्वम् । डीन्यपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाभावात् । नचैवं सति मनुष्यधर्म्यत्वेनैव बोधस्स्यात्, न तु नरत्वेनेति वाच्यम् । योग्यतया हि तद्धर्म्या नरत्वजातिविशिष्टैव बुध्द्यते । अत एव वास्तुनि भवो वास्तव्य इति रूपस्य * दिगादिभ्यो यत्' इति भवार्थकतया सिद्धत्वात् “वसेस्तव्यत्कर्तरि णिच्च' इति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते । रूढानां यथाकथञ्चिदन्वाख्यानमिति कैयटः' इति शब्देन्दुशेखरे स्थितम् । यङश्चाप् ॥ पकारो “हल्डयाब्भ्यः' इत्यत्र ग्रहणार्थः । चकारः * चित :’ इत्यन्तोदात्तार्थः । सामान्येति । यडूपस्य उभयत्रापि सत्त्वादिति भावः । ञ्यङमुदाहरति । आम्बष्ठयेति । आम्बष्ठस्यापत्यं स्त्री इत्यर्थः वृद्धेत्कोसल' इति ञ्यङ् । आम्बष्ठयशब्दाच्चाप् । गोत्रत्वेन जातित्वात् डीषि प्राप्त चाप् । घ्यङमुदाहरति । कारीषगन्ध्येति । करीषं गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः करीषगन्धिः । “उपमानाच्च' इति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेः गोत्रापत्यं स्त्री इत्यर्थे अण्प्रत्ययः । “ अणिओरनार्षयोः' इति तस्य घ्यडादेशः । कारीषगन्ध्यशब्दात् गोत्रत्वेन जातित्वात् डीषि प्राप्ते चाप् । षाद्यञः इति । षकारात् परो यो यञ् तदन्तादपि चाबि त्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाष