पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३८७
बालमनोरमा ।

५१५ । दिक्पूर्वपदान्ङीप् । (४-१-६०)

दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य डीषो डीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ।

५१६ । वाहः । (४-१-६१)

वाहन्तात्प्रातिपदिकान्ङीष्स्यात् । डीषेवानुवर्तते न डीप् । 'दित्यवाट् च मे दित्यौही च मे' ।

५१७ । सख्यशिश्विति भाषायाम् । (४-१-६२)

इतिशब्दः प्रकारे * भाषायाम्' इत्यस्यानन्तरं द्रष्टव्यः । तेन छन्द्स्य पि क्वचित् । सखी । अशिश्वी । “ आधेनवो धुनयन्तामशिश्वीः।' ।


तदाह । दिक्पूर्वेत्यादिना ॥ प्राङ्मुखीति ॥ प्राक् मुखं यस्या इति विग्रहः । डीषो ङीब्विधेः फलमाह । आद्युदात्तं पदमिति ॥ डीपः पित्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणा द्युदात्तत्त्वम् । डीषि तु प्रत्ययस्वरेणान्तादात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो डीबेव विधीयता मिति वाच्यम् । तथा सति प्राग्गुल्फेत्यादावपि “असंयोगोपधात्' इति निषेधं बाधित्वा डीष्प्र सङ्गात् । डीषो डीबादेशविधौ तु “स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' इति विहितडीषो डीवि धानान्न दोषः । “असंयोगोपधात्' इत्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः । वाहः ॥ वाह इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणम्, तदन्तविधिः । तदाह । वाहन्तादिति ॥ ङीषेवानुवर्तते इति ॥ 'अन्यतो डीष्' इत्यत इति शेषः । न डीबिति ॥ 'दिक्पूर्वपदात्' इति पूर्वेसूत्रे सन्निहितमपि डीब्ग्रहणमिह नानुवर्तते, अस्वरित त्वादित्यर्थः । स्वरे विशेषः। दित्यौहीति । गवान्तावत् षण्मासात्मकमेकैकं वयः । “गर्भाश्च मे वत्साश्च मे” इत्यनुवाके अनुक्रान्तानि वयांसि । “तत्र तृतीयं वयो दित्यशब्देनोच्यते इति यजुर्वेदभाष्ये भवस्वामिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च स्पष्टम् । दित्यं वहतीति विग्रहे च्छन्दसि सहः, वहश्च' इति ण्विः, उपधावृद्धिः, उपपदसमासः, दित्यवाहशब्दात् डीष् वाह ऊठ्, एत्येधत्यूटठ्सु' इति वृद्धिः । दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविषयत्वा द्वेदवाक्यमुदाहृतम् । लोके तु वाहयतेः क्विपि , वाह्शब्दात् डीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमप्येतत् सूत्रमतदर्थमिहोपन्यस्तम् । सख्यशिश्वी ॥ सखि शब्दात् शिशुशब्दाच्च स्त्रियां ङीषु निपात्यते भाषायाम् । लौकिकप्रयोगो भाषा । तर्हि वेदे नैव स्यादित्यत आह । इतिशब्दः इति ॥ प्रकारे इत्यनन्तरं वर्तत इति शेषः । प्रकार स्सजातीयता । भाषायामित्यस्येति । सच इतिशब्दः भाषायामित्यस्यानन्तरं सन्निवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह । तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यते इत्यर्थः । सखीति ॥ सखिशब्दात् डीषि “यस्येति च' इति खकारादिकारस्य लोपः । भाषायां किम् । “सखा