पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७५
बालमनोरमा ।

न सर्वत्र । किन्तु ' नीलादोषधौ' (वा २४५६) । नीली । 'प्राणिनि च' (वा २४५८) । नीली गौः । “ संज्ञायां वा' (वा २४५७) । नीली-नीला । कुशी अयोविकारश्चेत्, कुशान्या "कामुकी मैथुनेच्छा चेत्, कामुकान्या । कबरी केशानां सन्निवेशश्चेत्, कबरान्या । चित्रेत्यर्थः ।

५०१ । शोणात्प्राचाम् । (४-१-४३)

शोणी-शोणा ।

५०२ । वोतो गुणवचनात् । (४-१-४४)

उदन्ताद्गुणवाचिनो वा डीष्स्यात् । मृद्वी-मृदु । “उतः' किम् ।


सति “यस्येति च' इति लोपे नीलशब्दः, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्व सत्वात् 'नीलादोषधौ प्राणिनि च' इति नियमे सत्यपि डीषः प्राप्तेस्तन्निवृत्त्यर्थमनाच्छादनग्रहण मिति भावः । ननु नीला कुण्डीत्यत्रापि अनाच्छादनत्वात् डीष् स्यादित्याशङ्कय आह । अना च्छादनेऽपीति । 'नीलादोषधौ, प्राणिनि च' इति वार्तिकमेतत् । नीलात् अनाच्छादनेऽपि भवन् डीष् ओषधौ प्राणिनि चैव स्यात्, न त्वन्यत्रेत्यर्थः । एवञ्च नीला कुण्डीत्यादौ न डीषिति भावः । “संज्ञायां वा' इत्यपि वार्तिकम् । संज्ञायामुक्तविषये तदन्यत्रापि डीषु वा स्यादित्यर्थः । अयोविकारश्चेदिति ॥ फाला इति प्रसिद्धः । कुशान्येति । छन्दोगसूत्रे ‘प्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसत्रेष्वेके प्रादेशमात्रीः कुशपृष्ठास्त्वत्क्तस्समामज्जते इति प्रसिद्धाः । कामुकीति ॥ कामयितुं शीलमस्या इति विग्रहे । 'लषपत' इत्यादिना कुमेरुकञ् । मैथुनेनच्छावती चेदित्यर्थः । अर्शआद्यजन्ताट्टाप् । कामुकान्येति । धनादीच्छा वतीत्यर्थः । शोणात् प्राचाम् । 'रोहितो लोहितो रक्तश्शेोण कोकनदच्छविः' इत्यमरः ।

  • वर्णानान्तणतिनितान्तानाम्' इति शोणशब्दः आद्युदात्तः अनुदात्तान्तः । ‘अन्यतो डीष्

इति नित्यं डीषि प्राप्त विकल्पार्थमिदम् । वोतो गुणवचनात् ॥ प्रातिपदिकादि त्यनुवृत्तम्, वा उत इति च्छेदः । उतः गुणवचनस्य प्रातिपदिकस्य विशेषणात् तदन्त विधिः । तदाह । उदन्तादिति । वा डीषिति ॥ डीबिति नात्रानुवर्तते । “गुणवचनात् डीषाद्युदात्तार्थः' इति वार्तिकादिति भावः । मृडीति ॥ मृदुशब्दात् डीषि य्ण् । अत्र सत्त्वे निविशतेऽपैति पृथक्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ।।' इति भाष्ये गुणलक्षणमुक्तम् । सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः । द्रव्यमात्रसमवेत इति यावत् । मात्रपदात् सत्ताजातिर्व्यवच्छिद्यते । तस्याः द्रव्यगुणक्रियावृत्तित्वात् । अथ द्रव्यत्वे अतिव्याप्तिवारणाय आह । अपैतीति । कतिपय द्रव्यादपगच्छतीत्यर्थः । द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः । एवमपि गोत्वे अतिव्याप्तिवारणाय आह । पृथग्जातिषु दृश्यते इति । पृथक् भिन्नाः जातयः येषां ते पृथग्जातयः, भिन्नजातीयद्रव्यवृत्तिरिति यावत् । गोत्वस्य गोजातीयेष्वेव सत्त्वात् भिन्नजाती