पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३४९
बालमनोरमा ।

इति किम् । अश्विका । * स्त्रीप्रत्यय-' इति किम् । शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका । “धात्वन्तयकोस्तु नित्यम्' (वा ४५३६) । सुन । यिका । सुपाकिका

४६६ । भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि । (७-३-४७)

स्वेत्यन्तं लुप्तषष्टीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तर


विकल्पो न भवतीति भावः । ननु स्त्रीप्रत्ययस्य अत इद्वा स्यादित्येवास्तु, “आतः स्थाने इति मास्तु । साङ्काश्यकाशब्दे यकारादकारस्य वुञादशावयवत्वेन स्त्रीबोधकत्वाभावादिति चेत् । तर्ह्यातः स्थाने इति स्पष्टार्थमित्याहुः । अश्विकेति । अश्वाशब्दात् कः, “केऽण इति हूस्वः, पुनष्टाप्, अश्वकाशब्दः । अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वाभावा दित्वविकल्पो न, किन्तु “प्रत्ययस्थात्' इति नित्यमित्वमिति भावः । स्त्रीप्रत्यय इति किमिति ॥ यकपूर्वाया इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः । शुभंयिकेति ॥ शुभमिति मान्तमव्ययम् । तस्मिन्नुपपदे 'या प्रापणे' इति धातोः अन्येभ्यो ऽपि दृश्यते इति विच्। शुभंयाशब्दात् स्वार्थे कः। 'केऽणः' इति ड्रस्वः, टाप्, शुभंयकाशब्दः । अत्र यकारादकारस्य धात्ववयवस्य स्त्रीवाचकत्वाभावादित्वविकल्पो न, किन्तु “प्रत्ययस्थात् इति नित्यमेवेत्वमिति भावः । “यकपूर्वे धात्वन्तप्रतिषेधः' इति वार्तिकमर्थतस्सङ्गृह्णाति । धात्वन्तयकोस्तु नित्यमिति ॥ यश्च कश्चेति विग्रहः। धात्वन्तयकारककारयोरुपरि विद्य मानस्य अकारस्य नित्यमित्वम्, न तु विकल्प इत्यर्थः । सुनयिकेति ॥ णीञ् धातोः पचाद्यच् । “सार्वधातुकार्धधातुकयोः' इति गुणे अयादेशे नयशब्दः । सु शोभनः नय यस्यास्सा सुनया, ततः स्वार्थे कः, “केऽणः' इति हूस्वः, पुनष्टाप्, सुनयकाशब्दः, अत्र यकारस्य धात्वन्तत्वान्न ततः परस्याकारस्य इत्त्वविकल्पः, किन्तु ‘प्रत्ययस्थात्’ इति नित्यमित्व मिति भावः । सुपाकिकेति ॥ पचधातोर्घञि *चजो: कु घिण्यतोः' इति चकारस्य कुत्वे उपधावृद्धौ पाकशब्दः । सु शोभनः पाको यस्यास्सा सुपाका । स्वार्थे कः, “केऽणः' इति ह्रस्वः, पुनष्टापू, सुपाककाशब्दः । अत्र ककारस्य धात्वन्तत्वात् ततः परस्याकारस्य नेत्त्व विकल्पः । किन्तु 'प्रत्ययस्थात्' इति नित्यमित्वमिति भावः । भस्त्रैषा ॥ यकपूर्वत्वाभावात् 'उदीचाम्' इत्यप्राप्तौ वचनमिदम् । स्वेत्यन्तमिति ॥ भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा , एषां षण्णां द्वन्द्वः । ततः षष्ठ्या आर्षों लुक् । भस्त्रैषाजाज्ञाद्वास्वानामिति विवक्षितमिति भावः । एषामिति ॥ भस्रादीनामित्यर्थः । अत इद्वति ॥ पूर्वसूत्रादुदीचांग्रहणस्य ‘प्रत्ययस्थात् इति सूत्रात् इदित्यस्य चानुवृत्तेरिति भावः । नन्वाङ्गत्वात्तदन्तविधौ भस्रादिशब्दान्तानामिति लभ्यते व्यपदेशिवत्वेन केवलानामपि लभ्यते । एवञ्च नञ्पूर्वाणान्तद्भिन्नपूर्वाणां केवलानाञ्च सिद्धे नञ्पूर्वाणामपीति व्यर्थमित्यत आह । तदन्तविधिनैवेति । ननु तदन्तविधिना भस्रादिशब्दानां नञ्पूर्वाणामनञ्पूर्वाणाञ्च प्राप्तौ, नञ्पूर्वाणामेवेति नियमार्थ नञ्पूर्वग्रहणम् ।