पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५०३
बालमनोरमा ।

७१३ । अर्धं नपुंसकम् । (२-२-२)

समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । एकविभक्तावषष्ठयन्त वचनम् (वा ६७३) एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन 'पञ्चखट्टी' इत्यादि सिद्धयति । अर्ध पिप्पल्या अर्धपिप्पली । क्लीबे' किम् । ग्रामार्धः । द्रव्यैक्य एव । अर्ध पिप्पलीनाम् ।


शब्दानुपादानात् सर्वेणापि अवयववृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते । ज्ञापकस्य सामान्यापेक्षत्वात् । अहन्शब्दे सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वं ज्ञाप्यत इति भावः । मध्यरात्रः इति । रात्रेर्मध्य इत्यर्थः । पश्चिमरात्रेति । रात्रेः पश्चिममिति विग्रहः । ‘अहस्सर्वेक देश' इत्यच्समासान्तः । अर्धं नपुंसकम्। अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्य आह । समांशवाच्यर्धशब्दो नित्यं कृीबे इति । वर्तते इति शेषः । “वा पुस्यर्धोऽर्धं समेंऽशके' इति कोशादिति भावः अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसक लिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः । अंशसामान्यवाची तु पुलिङ्ग इत्युक्तम् । स प्राग्वादात । सः नित्यनपुंसकलिङ्गः अर्धशब्दः अवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात् पूर्वेण न प्राप्तिः । ननु अर्धं पिप्पल्याः अर्ध पिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्धं पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्याः अर्धः पिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात् पिप्पल्याः अर्धपिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, अधैं पिप्पल्याः अर्धपिप्पल्याम्, इति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतया 'एकविभक्तिचापूर्वनिपाते' इति उपसर्जनत्वात् “गोत्रियोः' इति हस्वस्यादित्यत आह । एकविभक्ताविति ॥ “एकविभक्ति चापूर्वनिपाते' इति सूत्रे अषष्ठयन्तम्’ इति वक्तव्यमित्यर्थः । ततश्च पिप्पलीशब्दस्य षष्ठ्यन्तत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्टानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्टाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठयन्तत्वात् अनुपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वा भावे अदन्तत्वाभावेन 'द्विगोः' इति डीबभावे पञ्चखट्वेति स्यात्, पञ्चखट्वीति न स्या दित्यत आह । एकदेशिसमासविषयकोऽयमिति ॥ 'अपथन्नपुसकम्' इति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति प्रथमानिर्दिष्टमित्यर्धशब्दस्योपसर्जन त्वात् पूर्वनिपातः । पिप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि “एकविभक्तौ' इति निषेधा दुपसर्जनत्वाभावान्न ह्रस्व इति भावः । ग्रामार्ध इति । ग्रामस्यार्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाभावेन नित्यनपुंसकत्वाभावान्नायं समासः । किन्तु ‘षष्ठी’इत्येव समास इति षष्ठयन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः। अर्धं पिप्पलीनामिति ॥अत्र द्रव्यैक्याभावान्न समासः। सति समासे अर्धपिप्पलीत्येव स्यात् विशेष्यैक्यात् । इदं सूत्रं “परवाङ्ल्लिगम्’ इति सूत्रभाष्ये प्रत्याख्यातम् ।