पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९४
[तत्पुरुष
सिद्धान्तकौमुदीसहिता


६९९ । पञ्चमी भयेन । (२-१-३७)

चोराद्भयं चोरभयम्। 'भयभीतभीतिभीभिरिति वाच्यम्' (वा १२७५) वृकभीत:।

७०० । अपेतापोढमुक्तपतितापत्रस्तैरल्पशः । (२-१-३८)

एतैः सहाल्पं पञ्चम्यन्त समख्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढ : । चक्रमुक्तः । स्वर्गपतितः । तुरङ्गापत्रस्तः । * अल्पशः ? किम् । प्रासादात्पतितः ।

७०१ । स्तोकान्तिकदूरार्थकृच्छ्राणि तेन । (२-१-३९)


इत्यमरः । इह उपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति । द्विजायायं द्विजार्थस्सूप इति ॥ तत्र द्विजायायमित्यस्वपदविग्रहः । तत्र अर्थशब्दस्थाने अयमिति शब्दः । नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । द्विजायेति ॥ तादर्थ्यचतुर्थी । तदन्तस्य अर्थशब्देन समासः । विशेष्यसूपशब्दस्य पुलिङ्गत्वात् समासस्य पुलिङ्गता च । द्विजस्य उपकारकस्सूप इत्यर्थः । द्विजार्था यवागूरिति ॥ द्विजस्येयमिति विग्रहः । अर्थशब्दस्य नित्यपुलिङ्गत्वे ऽपि 'परवल्लिङ्गम्’ इति पुल्लिङ्गं बाधित्वा अनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पयः इति । द्विजस्येदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्थ्यैव तादर्थ्यस्योक्तत्वात् “उक्तार्थानामप्रयोगः' इति न्यायेन अर्थशब्देन विग्रहाप्रसत्तेर्नित्यसमा सत्वं न्यायसिद्धमेव । गुरोरिदं गुर्वर्थमित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रह । तादर्थ्यचतुर्थ्यं न्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति विग्रहः । गवामनुकूलमि त्यर्थः । “हितयोगे च' इति शेषषष्ठयपवादश्चतुर्थी । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति ॥ तृणादिकमिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादर्थ्यचतुर्थ्य न्तस्य रक्षितशब्देन समासः । इति चतुर्थीसमासः । पञ्चमी भयेन ॥ पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोराद्भयं चोरभयामिति ॥ “भीत्रार्थानां भयहेतुः' इति अपादानत्वात् पञ्चमी । भयभीतभीतिभीभिरिति ॥ सूत्रे भयशब्दस्यैव ग्रहणात् भीता देरप्राप्ते समासे वचनम् । वृकभीत इति ॥ ' वृकभीतः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्ये “अपर आहृत्युक्ता भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्” इत्युक्ता 'वृकभयं, ग्राम निर्गतः, अधर्मजुगुप्सुः' इत्युदाहृतम् । चोरत्रस्तः, भोगोपरतः, इत्यादौ 'सुप्सुपा' इति वा मयूरव्यैसकादित्वाद्वा समासः । अपेतापोढ ॥ अल्पशः इति स्वार्थे शस् । अत एव निपातनात् । तदाह । अल्पं पञ्चम्यन्तमिति ॥ “बह्वल्पार्थात्’ इति शस् तु न भवति । बह्वल्पार्थान्मङ्गळामङ्गळवचनम्' इति वक्ष्यमाणत्वात् ॥ स्तोकान्तिक ॥ स्तोक, अन्तिक दूर, एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्ताति क्तप्रत्ययान्तेन समस्यन्ते इत्यर्थः । अर्थग्रहणं