पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४७७
बालमनोरमा ।

६६१ । यथाऽसादृश्ये । (२-१-७)

असादृश्ये एव यथाशव्दः समस्यते । तेनेह न । यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन * सादृश्य ' इति वा 'यथार्थ' इति वा प्राप्तं निषिध्यते ।

६६२ । यावदवधारणे । (२-१-८)

यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छलोकम् ।

६६३ । सुप्प्रतिना मात्रार्थे । (२-१-९)

शाकस्य लेशः शाकप्रति। “मात्रार्थे' किम् । वृक्षं प्रति विद्योतते विद्युत् ।


ड्ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति फलितम् । ग्रन्थमिति अन्यपदार्थाध्याहारः । अधीत इति तु न समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्याध्येतव्यत्वात् अग्निग्रन्थपर्यन्ताध्ययने तत्कार्त्स्न्यावगमात् साकल्यात्पृथ गुक्तिः । यथाऽसादृश्ये ॥ असादृश्ये इति छेदः । व्याख्यानात् । असादृश्ये योग्यता वीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्य यथार्थत्वादेव सिद्धे निय मार्थमिदमित्याह । असादृश्ये एवेति । ननु 'प्रकारवचने थाल्’ इति विहितथाल्प्रत्य यान्तस्य कथं सादृश्ये वृत्तिरित्यत आह । हरेरिति ॥ सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन् प्रकारे थालिति ‘प्रकारवचने थाल्’ इत्यस्यार्थः । ततश्च यद्विशेषधर्मवान् हरिः तद्विशेषधर्मवान् हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोः अभेदावगमात् उपमानत्वप्रतीतिरिति भावः । तेनेर्ति । प्राप्तमित्यत्रान्वयः । सादृश्यार्थकत्वेनेत्यर्थः । सादृश्य इति वेति । ‘अव्ययं विभक्ति’ इति सूत्रगतेन सादृश्ये वर्तमानमव्ययं समस्यते इत्यंशेन वा यथार्थे विद्यमानमव्ययं समस्यते इत्येशेन वा प्राप्तमव्ययीभावसमासकार्यन्निषिध्यते इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृश्यत्यनेनैव प्राप्तिरुक्ता, नतु यथार्थत्वेन प्राप्तिरुक्ता । यथाशब्दस्य सूत्रगृहीतत्वेन तद्योगे यथार्थेत्यप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः । यावद्वधा रणे ॥ इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते । सोऽव्ययीभाव इत्यर्थः । यावन्त इति ॥ यत् परिमाणं येषामिति विग्रहे “यत्तदेतभ्यः परिमाणे वतुप्' इति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव । नित्यसमासत्वेन अखपदविग्रहौ चित्यात् । अवधारणे किम् । यावद्दत्तन्तावदुक्तम् । इयत् भुक्तमिति नावधारयतीत्यर्थः । सुष्प्रतिना मात्रार्थे ॥ सुबिति छेदः । मात्रा लेशः तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनस्सुळ्ग्रहणं सन्निहितस्याव्यमित्यस्याननुवृत्त्यर्थम् । तत् ध्वनयन्नुदाहरति । शाकस्य लेशः शाकप्रतीति ॥ अत्र प्रतीत्यव्ययं मात्रार्थकम् ।