सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४७३
बालमनोरमा ।

दिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः । “ विभक्तौ तावत्' । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङिः अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी।

६५९ । अव्ययीभावश्च । (२-४-१८)

अयं नपुंसकं स्यात् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (सू ३१८) । गोपायतीति गाः पातीति वा गोपाः, तस्मिन्नित्यधिगोपम् । समीपे, कृष्णस्य


ते च ते वचनाश्च इति विग्रहः । विभक्तयर्थादिषु वाच्येष्वित्यर्थः । अव्ययमित्यनुवर्तते । अव्ययीभावस्समास इति चाधिकृतम् । तदाह । विभक्त्यर्थादिष्विति ॥ विभक्तौ तावदिति ॥ विभक्तयर्थे प्रथममुदाहियत इत्यर्थः । हरौ इत्यधिहरीति ॥ हरौ इति लौकिकविग्रहः । तेन यावदवगम्यते तावदेवाधिहरीति समासेनाप्युच्यते इत्यर्थः । अधिशब्दस्य हरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्यमिति प्रथमानिर्दिष्टत्वात् अधेः पूर्व निपाते समासादुत्पन्नस्य सुपः 'अव्ययादाप्सुपः’ इति लुगिति भावः । ननु लौकिकविग्रहे समस्य मानः अधिशब्दः कुतो नोपात्त इत्यत आह । सप्तम्यर्थस्यैवात्र द्योतकोऽधिरिति । तथाचाधिद्योत्यार्थस्य अधिकरणत्वस्य सप्तम्यैव उक्तत्वात् अधिशब्दो न पृथगुपात्तः । नित्य समासतया वक्ष्यमाणत्वेन स्वपदविग्रहानौचित्यादिति भावः । ननु हरौ इति परिनिष्ठितसन्धि कार्यस्य समासे सति औ इत्यस्य सुपो लुकि समासे रेफादिकारः कुतः न श्रूयेतेत्यत आह । हरि ङि इति ॥ सन्धिकार्यात् प्रागलौकिकविग्रहवाक्य एव समासप्रवृत्तेः । 'प्रत्ययोत्तरप दयोश्च ' इति भाष्यसम्मतत्वादिति भावः । यथा चैतत् तथा भूतपूर्वः इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाधिकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह । अत्र निपाते नेति ॥ वचनेति ॥ सुपेत्यनुवर्त्य सुबन्तेनात्र समासविधिसामर्थ्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु अनभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासैरित्येव परिगणनं दृष्टम् । अतो निपातेनाधिना अभिहितेऽप्यधिकरणत्वे सप्तमी निर्वाधा । “विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुम साम्प्रतम्” इत्यत्र तु प्रत्येतव्यमित्यध्द्याहार्यम् । कृताभिधानात् विषवृक्षात् द्वितीया न भवति । नच कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम् । ‘कटं करोति, मीष्ममुदारं दर्शनीयम्’ इत्यत्र परिगणनफलस्यान्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां तावत्। अव्ययीभावश्च॥ अयं नपुंसकं स्यादिति ॥ 'स नपुंसकम्' इत्यतः तदनुवृत्तेरिति भावः । नपुंसकत्वस्य फलमाह । ह्रस्वो नपुंसके इति । गोपायतीति ॥ रक्षतीत्यर्थः । 'गुपू रक्षणे' विच् । “आयादय आर्धधातुके वा' इत्यायप्रत्यय । “लोपो व्योः' इति यलोपः । “वेरपृक्तस्य’ इति वकारलोपः । गोपाशब्दः आकारान्तः । गाः पातीति ॥ पातेर्विवि उपपदसमासे गोपाशब्द इति भावः । अधिगोपमिति ॥ विभक्तयर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति