पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४७१
बालमनोरमा ।

६५४ । उपसर्जनं पूर्वम् । (२-२-३०)

समासे उपसर्जनं प्राक्प्रयोज्यम् ।

६५५ । एकविभक्ति चापूर्वनिपाते । (१-२-४४)

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात्, न तु तस्य पूर्वनिपातः।

६५६ । गोस्त्रियोरुपसर्जनस्य । (१-२-४८)

उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । “ अव्ययीभावश्च' (सू ४५१) इत्यव्ययत्वम् ।


परमिति भावः । एवञ्च ‘द्वितीया श्रित' इति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवञ्च “अव्ययम्’ इति समासविधावपेत्यस्य प्रथमा निर्दिष्टत्वादुपसर्जनत्वं स्थितम् । उपसर्जनं पूर्वम् ॥ प्राकडारात् समासः इत्यधिकृतम् । समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते । तदाह । समासे उपसर्जनं प्राक् प्रयोज्यमिति ॥ पूर्वमित्यस्य पूर्वे प्रयोज्यमित्यर्थ इति भावः । एवश्व प्रकृते अपेल्यस्य पूर्वे प्रयोगनियमः सिद्धः । अपदिशा इति स्थितम् । अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह । एकविभक्ति ॥ ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ इत्यतस्समास इति उपसर्जनमिति चानुवर्तते। समास इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकविभक्ति । नियतविभक्तिकमिति यावत् । एवञ्च विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकायें कर्तव्ये उपसर्जनं स्यादित्यर्थः । फलितमाह । विग्रहे यन्नियतेति ॥ निष्काशाम्बिशब्द उदाहरणम् । तत्र कौशाम्ब्याः निष्क्रान्तः निष्क्रान्तं निष्क्रान्तेन निष्क्रान्ताय निष्कान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे निष्कौशाम्बिः निष्कौशाम्बिं निष्कौशाम्बिना इत्यादि इति स्थितिः । अत्र कौशाम्बीशब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्व मनेन भवति । समासशात्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति “प्रथमानिर्दिष्टम्' इत्यप्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्य अनेन उपसर्जनत्वेऽपि न पूर्व निपातः । तत्तद्विभक्तयन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् । 'तुल्याथैः’ इति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इति ‘अनेकम्’ इति सूत्रे भाष्ये स्थितम् । प्रकृते च दिशयो र्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात् सरासविधौ प्रथमानिर्दिष्टत्वाभावेऽपि अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गो स्त्रियोः ॥ “हस्वो नपुंसके प्रातिपदिकस्य' इत्यतः ह्रस्व इति प्रातिपदिकस्येति चानुवर्तते । उपसर्जनस्येति गोस्त्रियोर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीप्रत्ययो-गृह्यते । प्रत्यग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तदन्तविधिः। तदाह । उपसर्जनामित्या दिना ॥ अत्र च शास्त्रीयमेव उपसर्जनं गृह्यते, नत्वप्रधानमात्रम् । कुमारीमिच्छन् कुमारी