पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्
४६९
बालमनोरमा ।

पर्यभूषयत् । अनुव्यचलत् । ' सुपा' । सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ।

६५० । सुपो धातुप्रातिपदिकयोः । (२-४-७१)

एतयोरवयवस्य सुपो लुक्स्यात् । “ भूतपूर्वे चरट्' (सू १९९९) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः । *इवेन समासो विभ क्त्यलोपश्च' (वा १२३६, १३४१) । जीमूतस्येव ।


विग्रहः । पर्यभूषयदिति ॥ समासान्तोदात्तत्वे शेषनिघात इति 'कुगति' इति सूत्रे कैयटः । देवो देवान् क्रतुना पर्यभूषयदित्यत्र तु स्वरव्यत्ययो बोध्द्यः । आनुव्यचल दिति ॥ अचलदित्यनेन वेः पूर्वं समासे सति तेन अनोस्समासः । नत्वनुव्योर्युगप त्समासः । सुवित्येकत्वस्य विवक्षितत्वात् । अत एव महिष्या अजायाश्च क्षीरमित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः । सुपा ॥ “सुबामन्त्रिते' इत्यतस्सुबित्यनुवर्तते । समासे इत्यधिकृतम् । तदाह । सुप्सुपेति । सुबन्तं सुवन्तेनत्यर्थः । ततश्च पूर्व भूत इति विग्रहे समाससंज्ञा स्थिता । समासत्वात् प्रातिपदिकसंज्ञेति ॥ “कृतद्धितसमासाश्च इत्यनेनेति शेषः । सुपो धातु ॥ धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह । एतयोरवयव स्येति ॥ लुक् स्यादिति ॥ 'ण्यक्षत्रियार्षेजितो यूनि लुक्' इत्यतस्तदनुवृत्तेरिति भावः । न च सुपः इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किन्न स्यादिति वाच्यम् । “पञ्चम्याः स्तोकादि भ्य:’ इत्यलुग्विधानात् । सुष्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । नचेवमपि पूर्वे भूत इति लौकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोस्सुवन्तयोस्समासे सति पूर्वमित्यत्र अमि पूर्व रूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मन्कारस्य सुप्त्वाभावात् कथं लुगिति वाच्यम् । 'सुपो धातु’ इति लुग्विषये “अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते, इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवालैौ किकविग्रहवाक्ये समासप्रवृत्तिरिति “प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । “कृत्तद्धित समासाश्च' इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम् । ‘भस्त्रैषा’ इति सूत्रव्याख्यावसरे प्रपञ्चित ञ्चास्माभिः। एवञ्च पूर्व अम् भूत स् इत्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेनोक्तदोषः। तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननु “सुबन्तं सुवन्तेन समस्यते' इति समासशात्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वञ्च द्वयोरप्यविशिष्टम् । ततश्च प्रथमानिर्दिष्टं समास् उपसर्ज नम्, इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात् 'उपसर्जनं पूर्वम्' इत्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह । भूतपूर्वे चरडिति ॥ पूर्व भूत इति ॥ लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति ॥ समासत्वेन प्रातिपदि कत्वात् समुदायात् पुनर्यथायथं सुबुत्पत्तिरिति भावः । इवेनेति ॥ इवेत्यव्ययेन सुबन्तस्य समासः । 'सुपो धातु' इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, नतु समासस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् ।