सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

६२४ । उभयप्राप्तौ कर्मणि । (२-३-६६

उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन । “ स्त्रीप्रत्ययोरकाकारयोर्नायं नियमः' (वा १५१३) । भेदिका बिभित्सा वा रुद्रस्य जगतः । * शेषे विभाषा' (वा १५१३) । स्त्रीप्रत्यये इत्येके । विचित्रा जगत: कृतिर्हरे:-हरिणा वा । “ केचिदविशेषेण विभाषा मिच्छन्ति ' । शब्दानामनुशासनमाचार्येण—आचार्यस्य वा ।

६२५ । क्तस्य च वर्तमाने । (२-३-६७)

वर्तमानाथस्य रक्तस्य योग षष्ठं स्यात् । ' नलोक (सू ६२७) इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ।


दुःखस्य पोषकैरित्येवं गृहीत्वेत्यध्ध्याहृत्य तद्योगे द्वितीयाया उपपत्तेः । उभयप्राप्तौ कर्मणि ।। पूर्वसूत्रात् कृतीत्यनुवर्तते । उभयप्राप्ताविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाह । उभयोः प्राप्तिर्यस्मिन् कृतीति । एकस्मिन् कृति उभयोः कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्टी स्यात्, नतु कर्तरीति यावत् । आश्चर्य इति । अगोपकर्तृकः गोकर्मक: यो दोहः स अद्भुत इत्यर्थः । उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानाञ्च प्रादु र्भाव इत्यत्रापि कर्मण्येव षष्ठी स्यान्न तु कर्तरि । बहुव्रीह्याश्रयणे तु एकस्यैव कृतो निमित्तत्व लाभात् भिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति । स्त्रीप्रत्यययो रिति ॥ वार्तिकमेतत् । “स्त्रियां क्तिन्’ इत्यधिकारविहितयोः अकाकारप्रत्यययोः कृतोः प्रयोगे कर्मण्येवेत्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति ॥ धात्वर्थनि र्देशे ण्वुल् । अकादेशः, टाप्, 'प्रत्ययस्थात्' इतीत्वम् । बिभित्सेति । भिदेस्सन्नन्तात् अ प्रत्ययात्' इत्यकारप्रत्ययः, टाप्। रुद्रकर्तृकं जगत्कर्मकं भेदनं, भेदनेच्छा वेत्यर्थः । शेषे विभाषेति । इदमपि वार्तिकम् । अकाकारप्रत्ययव्यतिरिक्तप्रत्यययोगे ‘उभयप्राप्तौ' इति नियमो विकल्प्यत इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृति रित्यर्थः । केचिदविशेषेणेति । अकाकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उत्क्तविकल्प इत्यर्थः । शब्दानामिति ॥ आचार्यकर्तृकं शब्दकर्मकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् । त्क्तस्य च वर्तमाने । ननु 'कर्तृकर्मणोः कृति ? इत्येव सिद्धे किमर्थमिदमित्यत आह । न लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्च ‘मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा । बुद्धेः पृथक् ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः राजकर्तृकवर्तमानज्ञान विषयः राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः । 'पूजितो यस्सुरासुरैः, ज्ञातो घटः त