पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४२७
बालमनोरमा ।

रोचते. भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कत्री । ' प्रीयमाणः' किम् । देवदत्ताय रोचते मोदकः पथि ।

५७२ । श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः । (१-४-३४)

एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते हुते तिष्ठते शपते वा । 'ज्ञीप्स्यमानः' किम् । देवदत्ताय श्लाघते पथि ।

५७३ । धारेरुत्तमर्णः । (१-४-३५)


रुच दीप्तावभिप्रीतौ च' दीप्तिरिह न रुच्यर्थः । प्रीयमाण इति विरोधात् । तथाच प्रीतिजनना र्थानामित्यर्थः । प्रीयमाण इति ॥ समवायेन प्रीत्याश्रय इत्यर्थः । हरये रोचते भक्ति रिति ॥ भक्तिः स्वविषयां प्रीतिं हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तम्, तदपवादोऽयम् । नन्वेवं सति हरिर्भक्तिमभिलषतीत्यत्रापि भक्त्तेः प्रीतिविषय त्वात् सम्प्रदानत्वं स्यादित्यत आह । अन्यकर्तृकोऽभिलाषो रुचिरिति ॥ समवायेन प्रीत्याश्रयापेक्षया यदन्यत् तत्कर्तृकाभिलाषः रुचधात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः । तथाच अभिलषतेः रुच्यर्थकत्वाभावान्न तद्योगे सम्प्रदानत्वम् । प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यत् भक्तिः, तत्कर्तृकैव प्रीतिरिति रुच्यर्थयोगः । नन्विह भत्तेस्सम्प्रदानत्वं कुतो न स्यात् । विषयतासम्बन्धेन भक्त्तेरपि प्रीत्याश्रयत्वादित्यत आह । हरिनिष्टप्रीतेर्भक्तिः कर्त्रीति॥ हरेव समवायसम्बन्धेन प्रीत्याश्रयतया प्रीयमाणत्वात् भक्त्तेः कत्रयां उत्क्तरीत्या प्रीयमाणत्वाभावाच्च न सम्प्रदानत्वमिति भावः । भक्तिर्हरिं प्रीणाति प्रीणयतीत्यादौ तु न भक्तेस्सम्प्रदानत्वप्रसक्तिः । तिङा अभिहितत्वात् समवायेन प्रीत्याश्रयत्वाभावाच्च । नापि हरेः । प्रीयमाण इति कर्मणि शानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्यस्याप्रसक्त्तेर्विज्ञानात् । अन्यथा प्रधातुकर्मणः सम्प्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति ॥ अत्र पथः प्रीयमाणत्वाभावान्न सम्प्रदानत्वमिति भावः । श्लाघह्नुड् ॥ 'श्लाघृ कत्थने, ह्नुङ् अपनयने, ष्ठा गतिनिवृत्तौ, शप उपालम्भे' एषां द्वन्द्वः । शपामित्यनन्तरं प्रयोगे इत्यध्द्याहार्यम् । श्लाघादीनां स्तुत्यादिना बोधनमर्थः। ज्ञीप्स्यमान इति लिङ्गात् ज्ञापनवाचिनो ज्ञपेस्सन्नन्तात् कर्मणि शानच् । तदाह । एषां प्रयोगे इत्यादि ना ॥ गोपी स्मरादिति ॥ मन्मथपीडावशात् गोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः । कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः । ह्नुते इति ॥ सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः । तिष्ठते इति ॥ गन्तव्यमित्युत्तेऽपि स्थित्या स्वाशयं कृष्णं बोधय तीत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । शपते इति ॥ उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः । धारेरुत्तमर्णः ॥ धारेरित्यनन्तरं प्रयोगे इत्यध्द्याहार्यम् । 'धृङ् अवस्थाने इत्यस्य हेतुमण्यन्तस्य धारेरिति निर्देशः । तदाह । धारयतेरित्यादिना ॥ अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुध्द्या गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्यग्रहीता अधमर्णः, ऋण