क्रिया कारकविभक्तौ प्रयोजिका ' । अलं श्रमेण । श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान् पाययति पयः । शतेन परिच्छिद्येत्यर्थ । * अशिष्टव्यवहारे दाणः प्रयोगे - चतुर्थ्यर्थे तृतीया (वा ५०४०) । दास्या संयच्छते कामुकः। धर्म्ये तु भार्यायै संयच्छति ।
इति तृतीया विभक्तिः ।
अलं श्रमेणेति ॥ ऊषरक्षेत्रं परिष्कुर्वाणं प्रति इदं वाक्यं प्रवृत्तम्। अत्र अलमिति नञर्थे निषेधे वर्तते । “ अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । साध्यमित्यध्द्याहारलभ्यम् । तदाह । श्रमेण सार्ध्द्यं नास्तीत्यर्थ इति ॥ सद्यः खेदाधायकत्वात् साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्यादिफलस्य क्रियारूपत्वाभावात् कथं श्रमस्य तत्र करणत्वमित्यत आह । इहेति ॥ साध्द्यमित्यत्र प्रकृतिभूतो यो धात्वर्थः साधनक्रिया उत्पत्त्यात्मिका तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायांश्चाभेद इति निरस्तम् । श्रमशब्देन व्रीह्याद्युत्पत्त्यनुकूलकर्षणादिव्यापारस्य साधनक्रियां प्रतीत्यनेन व्रीह्याद्युत्पत्तेश्च विवक्षितत्वात् । “गम्यमानापि क्रिया विभक्तौ प्रयोजिका' इत्यत्र उदाहरणान्तरमाह । शतेनेति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्खया वत्सान् पायतीति प्रतीयमानार्थः । तत्र वत्सनिष्ठ शतसङ्खयायाः पायने करणत्वाभावात् परिच्छिद्येति गम्यते । एकैकशतसङ्खयया वत्सान् परिच्छिद्य तदधिकवत्सेभ्यो व्यावत्य पाययतीत्यर्थः । तथाच शतसङ्खयाया. परिच्छेदं प्रति करणत्वमिति भावः । अशिष्ठेति ॥ इदश्च “दाणश्च सा चेञ्चतुर्थ्यर्थे' इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनशिष्टाः, वेदमार्गादपेताः अशिष्टाः, तेषां व्यवहारः आचारः, तस्मिन् विषये दाण्धातोः प्रयोगे सति चतुर्थ्यर्थे सम्प्रदाने तृतीया वाच्येत्यर्थः । दास्या संयच्छते कामुक इति ॥ दास्यै कामुकः प्रयच्छतीत्यर्थः । कामुक इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिः धर्मशास्त्रनिषिद्धत्वात् अशिष्टव्यवहार इति भावः । अशिष्टपदप्रयोजनमाह । धर्म्ये त्विंति ॥ धर्मादनपेत इत्यर्थः । न. तृतीयेति शेषः । “धर्मपथ्यर्थन्यायादनपेते' इति यादिति रत्नकारः । धर्मे त्विति पाठस्तु सुगम एव ॥
इति तृतीया विभक्तिः ।
१ इदं च 'दाणश्च सा चेचतुर्थ्यर्थे' (१-३-५४) इति सूत्रज्ञापितम् । तत्र अशिष्टव्यवहारे'इत्यंशो भाष्यकृतो वाचनिकः ।