पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दकारान्तप्रकरणम्]
२६९
बालमनोरमा ।

३९८ । तवममौ ङसि । (७-२-९६)

अनयोर्मपर्यन्तस्य तवम्मौ स्तो डसि ।

३९९ । युष्मद्स्मद्भ्यां ङसोऽश् । (७-१-२७)

स्पष्टम् । तव । मम । युवयो । आवयो।

४०० । साम आकम् । (७-१-३३)

आभ्या परस्य साम आकम स्यात् । भाविन सुटो निवृत्त्यर्थ ससुट्कनिर्देश । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयो. । आवयो. । युष्मासु । अस्मासु ।

तवममौ ङसि ॥ 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्ये त्यधिकृतम् । तदाह । अनयोरिति । युष्मदस्मदोरित्यर्थ । “त्वमावेकवचने' इत्यस्या पवाद । युष्मदस्मद्भयां डसोऽश् ॥ स्पष्टमिति ॥ युष्यदस्मद्भ्या परस्य डस अश स्यादिति सुगममित्यर्थ । शित्त्वात् सर्वादेश । तव । ममेति ॥ युष्मद् असू, अस्मद् अस्, इति स्थिते मपर्यन्तस्य तवममादेशयो कृतयो अशादेशे दकारात् पूर्वयोरकारयो पररूपे अदो लोप । अन्त्यलोपपक्षे दकारलोप । त्रयाणामकाराणा पररूपमिति भाव । युवयो. । आावयोरिति । युष्मद् ओस्, अस्मद् ओस्' इति स्थिते मपर्यन्तस्य युवावा देशयो “योऽचि' इति दस्य यत्वे पररूपमिति भाव । साम आवकम् ॥ आभ्यामिति ॥

  • युष्मदस्मभ्या डसोऽश्’ इत्यतस्तदनुवृत्तेरिति भाव । सामः इति ॥ सकारेण सह

वर्तत इति साम् तस्येत्यर्थ । ससुट्कस्य आम इति यावत् । ननु युष्मद् आम्, अस्मद् आम्, इति स्थिते अवर्णात् परत्वाभावात् सुटो न प्रसक्ति । नच “शेष लोप ? इति दस्य लोपे कृते अवर्णात् परत्वमस्तीति वाच्यम् । आकमादेशात् प्राक् अनादेशतया शेषलोपस्यै वात्राप्रसक्ते ससुट्कनिर्देशोऽनुपपन्न व्यर्थश्चेत्यत आह । भावेिनः इति । भविष्यत इत्यर्थं । यदि तु आम आकम् इत्येवोच्येत, तर्हि आम आकमादेशे कृते दकारस्य शेषलोपे सति स्थानि वत्त्वेन आकमादेशस्य आम्त्वात् तस्य च अवर्णात्परत्वात् सुडागम स्यात् । तत एत्वषत्वयो र्युष्मषाकम्, अस्मेषाकमिति स्यात् । अतस्ससुट्कनिर्देश । यद्यपि आकमादेशप्रवृत्तिकाले सुटो न प्रसक्ति । तथापि आकमादेशोत्तर दकारलोपे कृते स्थानिवत्वेन यस्सुट् भविष्यति तस्यापि स्थानषष्ठया स्वीकरणान्निवृत्तिर्भवति । अन्यथा ससुट्कनिर्देशवैय्यर्थ्यादिति भाव । यदि तु शेषस्य लोप एवाश्रीयते, तदा कृतेऽग्याकमादेशे अदो लोपे अवर्णात् परत्वाभावादेव सुट प्रसक्त्यभावात् ससुट्कनिर्देशो मास्तु । युष्माकम् । अस्माकमिति ॥ आकमादेशे कृते अदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घ । एतदर्थमेव दीर्घोच्चारणम् । अन्यथा पररूपापते । न चाकारोच्चारणसामर्थ्यदेव पररूपनिरास इति वाच्यम् । “बहुवचने झल्येत्' इत्यत्व निवृत्त्या चरितार्थत्वादित्यलम् । त्वयि । मयीति । युष्मद् इ, अस्मद् इ इति स्थिते मपर्य