पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

अककारस्येद्म इदो लोप. स्यादापि हलादौ । “ नानर्थकेऽलोऽन्त्यवि धिरनभ्यासविकारे' (वा ४९०) ।

३४८ । आद्यन्तवदेकस्मिन् । (१-१-२१)

एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव च स्यात् । आभ्याम् ।

३४९ । नेदमद्सोरकोः । (७-१-११)

अककारयोरिदमद्सोर्भिस ऐस् न स्यात् । एत्त्वम् । एभि । अत्वम् । नित्यत्वात् डे. स्मै, पश्चाद्धलि लोप । अस्मै, आभ्याम्, एभ्य । अस्मान् ।


अष्टन ' इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणम् । तदादिविधि । तदाह । अककारस्येत्यादिना ॥ अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्कय आह । नान र्थके इति ॥ परिभाषेयमुपधासज्ञासूत्रे भाष्ये स्थिता। इदम्शब्दे इद् इत्यस्यानर्थकत्वात् तदन्त स्येति लभ्यते । ततश्च इद् इत्यस्य कृत्स्रस्यैव लोप इति भाव । अनभ्यासविकार इत्यनुक्तौ बिभतीत्यादौ “भृणामित्, अर्तिपिपर्त्यश्च' इतीत्व कृत्स्रस्याभ्यासस्य स्यात् । द्वित्वे सति समु दायस्यैवार्थवत्त्वात् । 'हलि लोप 'इत्यत्र लोपग्रहणमपनीय ‘हल्यश्’ इत्येव सूत्रयितुमुचितम् । शित्त्वात् इद कृत्स्रस्याकारे पररूपे ‘सुपि च' इति दीर्घे आभ्यामित्यादिसिद्धे । ननु इदम् भ्याम् इति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ म्याम् इति स्थिते अङ्गस्याकारात्मकत्वात् अदन्त त्वाभावात् कथ ‘सुपि च' इति दीर्घ इत्यत आह । आद्यन्तवदेकस्मिन् ॥ आदित्वान्तत्वयोर्नि त्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्प्राप्तयर्थमिदमारभ्यते । एकशब्द अस हायवाची । “एके मुख्यान्यकेवला ' इत्यमर । सप्तम्यन्तात् “तत्र तस्येव' इति वति । एक स्मिन्नित्युपमेये सप्तमीदर्शनात् । वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येक सम्बद्यते । तदाह । एकस्मिन् क्रियमाणमादाविवान्त इव च स्यादिति ॥ तदादितदन्तयो क्रिय माण कार्य तदादौ तदन्ते इव च असहायेऽपि स्यादित्यर्थ । एकस्मिन्निति किम् । दरिद्राते रेरजिति न आदिवत्त्वफलम् औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम् आभ्यामित्यादौ अन्तवत्त्वात् दीर्घदिर्भवति। भाष्ये तु एकस्मिन्नित्यपनीय “व्यपदेशिवदेकस्मिन्’ इति सूत्रपाठ श्शिक्षित । तेन इयायेत्यादौ “एकाचो द्वे प्रथमस्य' इति द्विर्भाव । धुक् इत्यत्र व्यपदेशि वत्त्वेन वात्ववयवत्वात् भष्भावश्च सिध्द्यति । विशिष्ट अपदेश व्यपदेश व्यवहार सोऽस्या स्तीति व्यपदेशी मुख्य इति यावत् । एकस्मिन् तदादितदन्तत्वतदवयवत्वादिप्रयुक्तकार्य स्यादिति फलितम् । इदम् भिस् इति स्थिते त्यदाद्यत्वे पररूपे 'हलि लोप ' इति इदो लोपे अ भिस् इति स्थिते 'अतो भिस ऐस्' इति प्राप्ते । नेदमद्सोरकोः ॥ “अतो भिस ऐस् इत्यतो भिस ऐसित्यनुवर्तते । अकोरिति षष्ठी । न विद्यते ककारो ययेोरिति बहुव्रीहि । तदाह । अककारयोरित्यादिना । एत्वमिति ॥ “बहुवचने झलि' इत्यनेनेति शेषः । डयि विशेषमाह । अत्वमित्यादि । अत्व डे स्मै इत्यन्वय । इदम् ए इति स्थिते त्यदाद्यत्वे पररूपे इद ए इति स्थिते डेर्यादेश बाधित्वा सर्वनान्न स्मै' इति स्मैभाव इत्यर्थः ।