पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


हकारान्तप्रकरणम्]
२२३
बालमनोरमा ।

झलि' इति निवृत्तम् । स्ध्वोग्रहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भाव । जत्वचर्त्वे । धुक्-धुग् । दुहौ दुह। षत्वचर्त्वे । धुक्षु ।

३२७ । वा द्रुहमुहष्णुहष्णिहाम् । (८-२-३३)

एषां हन्य वा घ स्याज्झलि पदान्ते च । पक्षे ढ । ध्रुक्-घुग्-धुट्-धुड् ।


द्यन्ता ? इति धातुत्वातिबादि । ततः क्विबिति ॥ गर्दभि इति ण्यन्तान् कर्तरि क्विबि त्यर्थ । कपावितौ । वेर्लोप । णिलोप. इति ॥ *णेरनिटि ? इत्यनेनेनि शेष । गर्थेप् इति ॥ गर्दभ् इत्यस्मात् सु हल्डयादिलोप । “एकाचो बश ' इति दस्य च । वावसाने' इति चर्त्वम् । एकाचो धातो झषन्तस्येत्यन्वये गर्दभ् इत्यस्य सुब्धातोरने काच्त्वात् दकारस्य भध्भावो न स्यात् । धात्ववयवस्य झषन्तस्येत्यन्वये तु दम् इति एकाचो झषन्तस्य धात्ववयवत्वात् तदवयववस्य दस्य भाभावो निर्बाध इति भाव । अत्र प्राचीनै झलीत्यनुवर्तितम् । तदयुक्तमित्याह । झलीति निवृत्तमिति । सामर्थ्यादिति ॥ झला त्यनुवृत्तौ तद्वैयर्थ्यदिति भाव । ननु झलीत्यस्यानुवृत्तिरेवास्तु । स्कोरियव न क्रियतामित्यत आह । तेनेति ॥ झलौल्यननुवर्तनेनेत्यर्थ । दुग्धमिति ॥ दुहे क्त । कित्वात् न लघूपध गुण । ‘दादे' इति हृस्य घ । ‘झषस्तथोऽर्धोऽध' इति तकारस्य ध । ‘झलाञ्जश् झगशे' इति घस्य ग । दुग्धमिति रूपम् । दोग्धेति । दुहेस्तृच् । लघूपधगुण । ‘दादे' इति हस्य घ । झषस्तथो ' इति तकारस्य ध । 'ऋदुशनम्’ इत्यनङ् । “सर्वनामस्थाने च' इति दीर्घ । हत्डयादिलोप । ‘न लोप ' इति नकारलोप । दोग्धा इति रूपम् । झलीत्यनुवृत्तौ । इहोभयत्रापि चर्त्वे कृते भष्भावस्यादिति भाव । ननु दुहे क्विबन्तात् सोर्लोपे ‘दादे' इति धत्वे कृते दुघ् इति झषन्तमेकाच्कम् । तस्य धातुत्वात् धात्ववयत्वाभावात् कथमिह दकारस्य भष्भावेन धकारस्स्यादित्यत आह । व्यपदेशिवद्भावेनेति ॥ विशिष्ट अपदेश व्यपदेश मुख्यव्यव हार, सोऽस्यास्तीति व्यपदेशी, तेन तुत्य व्यपदेशिवत् । धातावेव धात्ववयवत्वव्यवहारो गौण । राहोश्शिर इत्यादिवदिति भाव । इदश्च आद्यन्तवदेकस्मिन्’ इति सूत्रे भाष्ये स्पष्टम् । धुक्-धुगिति ॥ क्विप प्राक्प्रवृत्ताया धातुसज्ञाया अनपायात् ‘दादे.' इति धत्वे कृते झषन्तत्वात् भष्भावे चर्त्वविकल्प इति भाव । दुहौ, दुह । दुहम्, दुहौ, दुह । दुहा । म्यामादौ ‘दादे' इति घत्वे कृते स्वादिष्विति पदत्वात् पदान्तत्वप्रयुक्तो भध्भाव । 'झलाञ्चशोऽन्ते' इति जश्त्वम् । धुग्भि । दुहे, धुग्भ्याम्, धुग्भ्य । दुह । दुह, दुहो , दुहाम् । दुह् सु इति स्थित प्रक्रि या दर्शयति । षत्वेति ॥ घत्वे कृते भष्भावे 'झलाञ्जशोऽन्ते’ इति जश्त्वेन गकार । तस्य ‘खरि च' इति चर्त्वस्यासिद्धत्वात् ‘आदेशप्रत्यययो ' इति षत्वेकृते चर्त्वे धुक्षुइति रूपमिति भाव । द्रुह जिघासायाम्, मुह वैचित्त्ये, ष्णुह उद्भिरणे, ष्णिह प्रीता' एभ्य. क्विबन्तभ्य सोलॅीपे द्रुहेर्दादित्वात् ढत्व बाधित्वा नित्य घत्वे प्राप्त इतरेषामतदादित्वात् अप्राप्ते घत्वे इदमारभ्यते । वा दुह ॥ ‘दादे.’ इत्यतो घ इत्यनुवर्तते । झलीति पदस्येति अन्ते इति पूर्ववदनुवर्तते ।